Bhagavad Gītā · Chapter 1 of 18
अर्जुनविषादयोग
Arjuna's Dilemma
धृतराष्ट्र उवाच धर्म-क्षेत्रे कुरु-क्षेत्रे समवेताः युयुत्सवः । मामकाः पाण्डवाः च एव किम् अकुर्वत सञ्जय ॥ १-१॥
सञ्जय उवाच दृष्ट्वा तु पाण्डव-अनीकम् व्यूढम् दुर्योधनः तदा । आचार्यम् उपसङ्गम्य राजा वचनम् अब्रवीत् ॥ १-२॥
पश्य एताम् पाण्डु-पुत्राणाम् आचार्य महतीम् चमूम् । व्यूढाम् द्रुपद-पुत्रेण तव शिष्येण धीमता ॥ १-३॥
अत्र शूराः महा-इषु-आसाः भीम-अर्जुन-समाः युधि । युयुधानः विराटः च द्रुपदः च महारथः ॥ १-४॥
धृष्टकेतुः चेकितानः काशिराजः च वीर्यवान् । पुरुजित् कुन्तिभोजः च शैब्यः च नर-पुङ्गवः ॥ १-५॥
युधामन्युः च विक्रान्तः उत्तमौजाः च वीर्यवान् । सौभद्रः द्रौपदेयाः च सर्वे एव महारथाः ॥ १-६॥
अस्माकम् तु विशिष्टाः ये तान् निबोध द्विज-उत्तम । नायकाः मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥ १-७॥
भवान् भीष्मः च कर्णः च कृपः च समितिञ्जयः । अश्वत्थामा विकर्णः च सौमदत्तिः तथा एव च ॥ १-८॥
अन्ये च बहवः शूराः मदर्थे त्यक्त-जीविताः । नाना-शस्त्र-प्रहरणाः सर्वे युद्ध-विशारदाः ॥ १-९॥
अपर्याप्तम् तत् अस्माकम् बलम् भीष्म-अभिरक्षितम् । पर्याप्तम् तु इदम् एतेषाम् बलम् भीम-अभिरक्षितम् ॥ १-१०॥
अयनेषु च सर्वेषु यथा-भागम् अवस्थिताः । भीष्मम् एव अभिरक्षन्तु भवन्तः सर्वे एव हि ॥ १-११॥
तस्य सञ्जनयन् हर्षम् कुरु-वृद्धः पितामहः । सिंहनादम् विनद्य उच्चैः शङ्खम् दध्मौ प्रतापवान् ॥ १-१२॥
ततः शङ्खाः च भेर्यः च पणव-आनक-गोमुखाः । सहसा एव अभ्यहन्यन्त सः शब्दः तुमुलः अभवत् ॥ १-१३॥
ततः श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवः च एव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १-१४॥
पाञ्चजन्यम् हृषीकेशः देवदत्तम् धनञ्जयः । पौण्ड्रम् दध्मौ महा-शङ्खम् भीम-कर्मा वृक-उदरः ॥ १-१५॥
अनन्तविजयम् राजा कुन्ती-पुत्रः युधिष्ठिरः । नकुलः सहदेवः च सुघोष-मणि-पुष्पकौ ॥ १-१६॥
काश्यः च परम-इषु-आसः शिखण्डी च महारथः । धृष्टद्युम्नः विराटः च सात्यकिः च अपराजितः ॥ १-१७॥
द्रुपदः द्रौपदेयाः च सर्वशः पृथिवी-पते । सौभद्रः च महा-बाहुः शङ्खान् दध्मुः पृथक् पृथक् ॥ १-१८॥
सः घोषः धार्तराष्ट्राणाम् हृदयानि व्यदारयत् । नभः च पृथिवीम् च एव तुमुलः अभ्यनुनादयन् ॥ १-१९॥
हृषीकेशं तदा वाक्यमिदमाह महीपते । अथ व्यवस्थितान् दृष्ट्वा धार्त्रराष्ट्रान् कपि-ध्वजः । प्रवृत्ते शस्त्र-सम्पाते धनुः उद्यम्य पाण्डवः ॥ १-२०॥
अर्जुन उवाच सेनयोः उभयोः मध्ये रथम् स्थापय मे अच्युत ॥ १-२१॥
यावत् एतान् निरीक्षे अहम् योद्धु-कामान् अवस्थितान् । कैः मया सह योद्धव्यम् अस्मिन् रण-समुद्यमे ॥ १-२२॥
योत्स्यमानान् अवेक्षे अहम् ये एते अत्र समागताः । धार्तराष्ट्रस्य दुर्बुद्धेः युद्धे प्रिय-चिकीर्षवः ॥ १-२३॥
संजय उवाच एवम् उक्तः हृषीकेशः गुडाकेशेन भारत । सेनयोः उभयोः मध्ये स्थापयित्वा रथ-उत्तमम् ॥ १-२४॥
भीष्म-द्रोण-प्रमुखतः सर्वेषाम् च मही-क्षिताम् । उवाच पार्थ पश्य एतान् समवेतान् कुरून् इति ॥ १-२५॥
कृपया परयाविष्टो विषीदन्निदमब्रवीत् । तत्र अपश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान् । आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीन् तथा ॥ १-२६॥
श्वशुरान् सुहृदः च एव सेनयोः उभयोः अपि । तान् समीक्ष्य सः कौन्तेयः सर्वान् बन्धून् अवस्थितान् ॥ १-२७॥
अर्जुन उवाच दृष्ट्वा इमम् स्वजनम् कृष्ण युयुत्सुम् समुपस्थितम् ॥ १-२८॥
सीदन्ति मम गात्राणि मुखम् च परिशुष्यति । वेपथुः च शरीरे मे रोम-हर्षः च जायते ॥ १-२९॥
गाण्डीवम् स्रंसते हस्तात् त्वक् च एव परिदह्यते । न च शक्नोमि अवस्थातुम् भ्रमति इव च मे मनः ॥ १-३०॥
निमित्तानि च पश्यामि विपरीतानि केशव । न च श्रेयः अनुपश्यामि हत्वा स्वजनम् आहवे ॥ १-३१॥
न काङ्क्षे विजयम् कृष्ण न च राज्यम् सुखानि च । किम् नः राज्येन गोविन्द किम् भोगैः जीवितेन वा ॥ १-३२॥
येषाम् अर्थे काङ्क्षितम् नः राज्यम् भोगाः सुखानि च । ते इमे अवस्थिताः युद्धे प्राणान् त्यक्त्वा धनानि च ॥ १-३३॥
आचार्याः पितरः पुत्राः तथा एव च पितामहाः । मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनः तथा ॥ १-३४॥
एतान् न हन्तुम् इच्छामि घ्नतः अपि मधुसूदन । अपि त्रैलोक्य-राज्यस्य हेतोः किम् नु महीकृते ॥ १-३५॥
निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्यात् जनार्दन । पापम् एव आश्रयेत् अस्मान् हत्वा एतान् आततायिनः ॥ १-३६॥
तस्मात् न अर्हाः वयम् हन्तुम् धार्तराष्ट्रान् स्वबान्धवान् । स्वजनम् हि कथम् हत्वा सुखिनः स्याम माधव ॥ १-३७॥
यदि अपि एते न पश्यन्ति लोभ-उपहत-चेतसः । कुल-क्षय-कृतम् दोषम् मित्र-द्रोहे च पातकम् ॥ १-३८॥
कथम् न ज्ञेयम् अस्माभिः पापात् अस्मान् निवर्तितुम् । कुल-क्षय-कृतम् दोषम् प्रपश्यद्भिः जनार्दन ॥ १-३९॥
कुल-क्षये प्रणश्यन्ति कुल-धर्माः सनातनाः । धर्मे नष्टे कुलम् कृत्स्नम् अधर्मः अभिभवति उत ॥ १-४०॥
अधर्म-अभिभवात् कृष्ण प्रदुष्यन्ति कुल-स्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण-सङ्करः ॥ १-४१॥
सङ्करः नरकाय एव कुल-घ्नानाम् कुलस्य च । पतन्ति पितरः हि एषाम् लुप्त-पिण्ड-उदक-क्रियाः ॥ १-४२॥
दोषैः एतैः कुल-घ्नानाम् वर्ण-सङ्कर-कारकैः । उत्साद्यन्ते जाति-धर्माः कुल-धर्माः च शाश्वताः ॥ १-४३॥
उत्सन्न-कुल-धर्माणाम् मनुष्याणाम् जनार्दन । नरके अनियतम् वासः भवति इति अनुशुश्रुम ॥ १-४४॥
अहो बत महत् पापम् कर्तुम् व्यवसिता वयम् । यत् राज्य-सुख-लोभेन हन्तुम् स्वजनम् उद्यताः ॥ १-४५॥
यदि माम् अप्रतीकारम् अशस्त्रम् शस्त्र-पाणयः । धार्तराष्ट्राः रणे हन्युः तत् मे क्षेमतरम् भवेत् ॥ १-४६॥
सञ्जय उवाच एवम् उक्त्वा अर्जुनः सङ्ख्ये रथ-उपस्थे उपाविशत् । विसृज्य सशरम् चापं शोक-संविग्न-मानसः ॥ १-४७॥