Bhagavad Gītā · Chapter 2 of 18

सांख्ययोग

Transcendental Knowledge

सञ्जय उवाच तम् तथा कृपया आविष्टम् अश्रु-पूर्ण-आकुल-ईक्षणम् । विषीदन्तम् इदम् वाक्यम् उवाच मधुसूदनः ॥ २-१॥

कुतः त्वा कश्मलम् इदम् विषमे समुपस्थितम् । अनार्य-जुष्टम् अस्वर्ग्यम् अकीर्तिकरम् अर्जुन ॥ २-२॥

क्लैब्यम् मा स्म गमः पार्थ न एतत् त्वयि उपपद्यते । क्षुद्रम् हृदय-दौर्बल्यम् त्यक्त्वा उत्तिष्ठ परन्तप ॥ २-३॥

अर्जुन उवाच कथम् भीष्मम् अहम् सङ्ख्ये द्रोणम् च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजा-अर्हौ अरि-सूदन ॥ २-४॥

गुरून् अहत्वा हि महानुभावान् श्रेयः भोक्तुम् भैक्ष्यम् अपि इह लोके । हत्वा अर्थ-कामान् तु गुरून् इह एव भुञ्जीय भोगान् रुधिर-प्रदिग्धान् ॥ २-५॥

न च एतत् विद्मः कतरत् नः गरीयः यत् वा जयेम यदि वा नः जयेयुः । यान् एव हत्वा न जिजीविषामः ते अवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ २-६॥

कार्पण्य-दोष-उपहत-स्वभावः पृच्छामि त्वाम् धर्म-सम्मूढ-चेताः । यत् श्रेयः स्यात् निश्चितम् ब्रूहि तत् मे शिष्यः ते अहम् शाधि माम् त्वाम् प्रपन्नम् ॥ २-७॥

न हि प्रपश्यामि मम अपनुद्यात् यत् शोकम् उच्छोषणम् इन्द्रियाणाम् । अवाप्य भूमौ असपत्नम् ऋद्धम् राज्यम् सुराणाम् अपि च आधिपत्यम् ॥ २-८॥

सञ्जय उवाच एवम् उक्त्वा हृषीकेशम् गुडाकेशः परन्तपः । न योत्स्ये इति गोविन्दम् उक्त्वा तूष्णीम् बभूव ह ॥ २-९॥

तम् उवाच हृषीकेशः प्रहसन् इव भारत । सेनयोः उभयोः मध्ये विषीदन्तम् इदम् वचः ॥ २-१०॥

अशोच्यान् अन्वशोचः त्वम् प्रज्ञा-वादा च भाषसे । गतासून् अगतासून् च न अनुशोचन्ति पण्डिताः ॥ २-११॥

न तु एव अहम् जातु न आसम् न त्वम् न इमे जनाधिपाः । न च एव न भविष्यामः सर्वे वयम् अतः परम् ॥ २-१२॥

देहिनः अस्मिन् यथा देहे कौमारम् यौवनम् जरा । तथा देहान्तर-प्राप्तिः धीरः तत्र न मुह्यति ॥ २-१३॥

मात्रा-स्पर्शाः तु कौन्तेय शीत-उष्ण-सुख-दुःख-दाः । आगम अपायिनः अनित्याः । भारत तान् तितिक्षस्व ॥ २-१४॥

यम् हि न व्यथयन्ति एते पुरुषम् पुरुष-ऋषभ । सम-दुःख-सुखम् धीरम् सः अमृतत्वाय कल्पते ॥ २-१५॥

न असतः विद्यते भावः न अभावः विद्यते सतः । उभयोः अपि दृष्टः अन्तः तु अनयोः तत्त्व-दर्शिभिः ॥ २-१६॥

अविनाशि तु तत् विद्धि येन सर्वम् इदम् ततम् । विनाशम् अव्ययस्य अस्य न कश्चित् कर्तुम् अर्हति ॥ २-१७॥

अन्तवन्तः इमे देहाः नित्यस्य उक्ताः शरीरिणः । अनाशिनः अप्रमेयस्य तस्मात् युध्यस्व भारत ॥ २-१८॥

यः एनम् वेत्ति हन्तारम् यः च एनम् मन्यते हतम् । उभौ तौ न विजानीतः न अयम् हन्ति न हन्यते ॥ २-१९॥

न जायते म्रियते वा कदाचित् न अयम् भूत्वा अभविता वा न भूयः । अजः नित्यः शाश्वतः अयम् पुराणः न हन्यते हन्यमाने शरीरे ॥ २-२०॥

वेद अविनाशिनम् नित्यम् यः एनम् अजम् अव्ययम् । कथम् सः पुरुषः पार्थ कम् घातयति हन्ति कम् ॥ २-२१॥

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरः अपराणि । तथा शरीराणि विहाय जीर्णानि अन्यानि संयाति नवानि देही ॥ २-२२॥

न एनम् छिन्दन्ति शस्त्राणि न एनम् दहति पावकः । न च एनम् क्लेदयन्ति आपः न शोषयति मारुतः ॥ २-२३॥

अच्छेद्यः अयम् अदाह्यः अयम् अक्लेद्यः अशोष्यः एव च । नित्यः सर्वगतः स्थाणुः अचलः अयम् सनातनः ॥ २-२४॥

अव्यक्तः अयम् अचिन्त्यः अयम् अविकार्यः अयम् उच्यते । तस्मात् एवम् विदित्वा एनम् न अनुशोचितुम् अर्हसि ॥ २-२५॥

अथ च एनम् नित्य-जातम् नित्यम् वा मन्यसे मृतम् । तथा अपि त्वम् महा-बाहो न एनम् शोचितुम् अर्हसि ॥ २-२६॥

जातस्य हि ध्रुवः मृत्युः ध्रुवम् जन्म मृतस्य च । तस्मात् अपरिहार्ये अर्थे न त्वम् शोचितुम् अर्हसि ॥ २-२७॥

अव्यक्त-आदीनि भूतानि व्यक्त-मध्यानि भारत । अव्यक्त-निधनानि एव तत्र का परिदेवना ॥ २-२८॥

आश्चर्यवत् पश्यति कश्चित् एनम् आश्चर्यवत् वदति तथा एव च अन्यः । आश्चर्यवत् च एनम् अन्यः श‍ृणोति श्रुत्वा अपि एनम् वेद न च एव कश्चित् ॥ २-२९॥

देही नित्यम् अवध्यः अयम् देहे सर्वस्य भारत । तस्मात् सर्वाणि भूतानि न त्वम् शोचितुम् अर्हसि ॥ २-३०॥

स्वधर्मम् अपि च अवेक्ष्य न विकम्पितुम् अर्हसि । धर्म्यात् हि युद्धात् श्रेयः अन्यत् क्षत्रियस्य न विद्यते ॥ २-३१॥

यत् ऋच्छया च उपपन्नं स्वर्ग-द्वारम् अपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् ॥ २-३२॥

अथ चेत् त्वम् इमम् धर्म्यम् सङ्ग्रामम् न करिष्यसि । ततः स्वधर्मम् कीर्तिम् च हित्वा पापम् अवाप्स्यसि ॥ २-३३॥

अकीर्तिम् च अपि भूतानि कथयिष्यन्ति ते अव्ययाम् । सम्भावितस्य च अकीर्तिः मरणात् अतिरिच्यते ॥ २-३४॥

भयात् रणात् उपरतम् मंस्यन्ते त्वाम् महारथाः । येषाम् च त्वम् बहु-मतः भूत्वा यास्यसि लाघवम् ॥ २-३५॥

अवाच्य-वादान् च बहून् वदिष्यन्ति तव अहिताः । निन्दन्तः तव सामर्थ्यम् ततः दुःखतरम् नु किम् ॥ २-३६॥

हतः वा प्राप्स्यसि स्वर्गम् जित्वा वा भोक्ष्यसे महीम् । तस्मात् उत्तिष्ठ कौन्तेय युद्धाय कृत-निश्चयः ॥ २-३७॥

सुख-दुःखे समे कृत्वा लाभ-अलाभौ जय-अजयौ । ततः युद्धाय युज्यस्व न एवम् पापम् अवाप्स्यसि ॥ २-३८॥

एषा ते अभिहिता साङ्ख्ये बुद्धिः योगे तु इमाम् श‍ृणु । बुद्ध्या युक्तः यया पार्थ कर्म-बन्धम् प्रहास्यसि ॥ २-३९॥

न इह अभिक्रम-नाशः अस्ति प्रत्यवायः न विद्यते । स्वल्पम् अपि अस्य धर्मस्य त्रायते महतः भयात् ॥ २-४०॥

व्यवसाय-आत्मिका बुद्धिः एका इह कुरु-नन्दन । बहु-शाखाः हि अनन्ताः च बुद्धयः अव्यवसायिनाम् ॥ २-४१॥

याम् इमाम् पुष्पिताम् वाचम् प्रवदन्ति अविपश्चितः । वेद-वाद-रताः पार्थ न अन्यत् अस्ति इति वादिनः ॥ २-४२॥

काम-आत्मानः स्वर्ग-पराः जन्म-कर्म-फल-प्रदाम् । क्रिया-विशेष-बहुलाम् भोग-ऐश्वर्य-गतिम् प्रति ॥ २-४३॥

भोग-ऐश्वर्य-प्रसक्तानाम् तया अपहृत-चेतसाम् । व्यवसाय-आत्मिका बुद्धिः समाधौ न विधीयते ॥ २-४४॥

त्रैगुण्य-विषयाः वेदाः निस्त्रैगुण्यः भवार्जुन । निर्द्वन्द्वः नित्य-सत्त्वस्थः निर्योगक्षेमः आत्मवान् ॥ २-४५॥

यावान् अर्थः उदपाने सर्वतः सम्प्लुतोदके । तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ २-४६॥

कर्मणि एव अधिकारः ते मा फलेषु कदाचन । मा कर्म-फल-हेतुः भूः मा ते सङ्गः अस्तु अकर्मणि ॥ २-४७॥

योगस्थः कुरु कर्माणि सङ्गम् त्यक्त्वा धनञ्जय । सिद्धि असिद्ध्योः समः भूत्वा समत्वम् योगः उच्यते ॥ २-४८॥

दूरेण हि अवरम् कर्म बुद्धि-योगात् धनञ्जय । बुद्धौ शरणम् अन्विच्छ कृपणाः फल-हेतवः ॥ २-४९॥

बुद्धि-युक्तः जहाति इह उभे सुकृत-दुष्कृते । तस्मात् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ २-५०॥

कर्मजम् बुद्धि-युक्ताः हि फलं त्यक्त्वा मनीषिणः । जन्म-बन्ध-विनिर्मुक्ताः पदम् गच्छन्ति अनामयम् ॥ २-५१॥

यदा ते मोह-कलिलम् बुद्धिः व्यतितरिष्यति । तदा गन्तासि निर्वेदम् श्रोतव्यस्य श्रुतस्य च ॥ २-५२॥

श्रुति-विप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधौ अचला बुद्धिः तदा योगम् अवाप्स्यसि ॥ २-५३॥

अर्जुन उवाच स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थितधीः किम् प्रभाषेत किम् आसीत व्रजेत किम् ॥ २-५४॥

प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् । आत्मनि एव आत्मना तुष्टः स्थितप्रज्ञः तदा उच्यते ॥ २-५५॥

दुःखेषु अनुद्विग्न-मनाः सुखेषु विगत-स्पृहः । वीत-राग-भय-क्रोधः स्थितधीः मुनिः उच्यते ॥ २-५६॥

यः सर्वत्र अनभिस्नेहः तत् तत् प्राप्य शुभ-अशुभम् । न अभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५७॥

यदा संहरते च अयम् कूर्मः अङ्गानि इव सर्वशः । इन्द्रियाणि इन्द्रिय-अर्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता ॥ २-५८॥

विषयाः विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जम् रसः अपि अस्य परम् दृष्ट्वा निवर्तते ॥ २-५९॥

यततः हि अपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ २-६०॥

तानि सर्वाणि संयम्य युक्तः आसीत मत्परः । वशे हि यस्य इन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६१॥

ध्यायतः विषयान् पुंसः सङ्गः तेषु उपजायते । सङ्गात् सञ्जायते कामः कामात् क्रोधः अभिजायते ॥ २-६२॥

क्रोधात् भवति सम्मोहः सम्मोहात् स्मृति-विभ्रमः । स्मृति-भ्रंशात् बुद्धि-नाशः बुद्धि-नाशात् प्रणश्यति ॥ २-६३॥

राग-द्वेष-विमुक्तैः तु विषयान् इन्द्रियैः चरन् । (वियुक्तैः तु) आत्म-वश्यैः विधेय-आत्मा प्रसादम् अधिगच्छति ॥ २-६४॥

प्रसादे सर्व-दुःखानाम् हानिः अस्य उपजायते । प्रसन्न-चेतसः हि आशु बुद्धिः पर्यवतिष्ठते ॥ २-६५॥

न अस्ति बुद्धिः अयुक्तस्य न च अयुक्तस्य भावना । न च अभावयतः शान्तिः अशान्तस्य कुतः सुखम् ॥ २-६६॥

इन्द्रियाणाम् हि चरताम् यत् मनः अनुविधीयते । तत् अस्य हरति प्रज्ञाम् वायुः नावम् इव अम्भसि ॥ २-६७॥

तस्मात् यस्य महा-बाहो निगृहीतानि सर्वशः । इन्द्रियाणि इन्द्रिय-अर्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता ॥ २-६८॥

या निशा सर्व-भूतानाम् तस्याम् जागर्ति संयमी । यस्याम् जाग्रति भूतानि सा निशा पश्यतः मुनेः ॥ २-६९॥

आपूर्यमाणम् अचल-प्रतिष्ठम् समुद्रम् आपः प्रविशन्ति यद्वत् । तद्वत् कामाः यम् प्रविशन्ति सर्वे सः शान्तिम् आप्नोति न काम-कामी ॥ २-७०॥

विहाय कामान् यः सर्वान् पुमान् चरति निःस्पृहः । निर्ममः निरहङ्कारः सः शान्तिम् अधिगच्छति ॥ २-७१॥

एषा ब्राह्मी स्थितिः पार्थ न एनाम् प्राप्य विमुह्यति । स्थित्वा अस्याम् अन्तकाले अपि ब्रह्म-निर्वाणम् ऋच्छति ॥ २-७२॥

Bhagavad Gita Chapter 2: Transcendental Knowledge — Sanskrit (Devanagari) · ekadasi.day