Bhagavad Gītā · Chapter 18 of 18

मोक्षसंन्यासयोग

Yoga through the Perfection of Renunciation and Surrender

अर्जुन उवाच संन्यासस्य महा-बाहो तत्त्वम् इच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक् केशि-निषूदन ॥ १८-१॥

काम्यानाम् कर्मणाम् न्यासम् संन्यासम् कवयः विदुः । सर्व-कर्म-फल-त्यागम् प्राहुः त्यागम् विचक्षणाः ॥ १८-२॥

त्याज्यम् दोषवत् इति एके कर्म प्राहुः मनीषिणः । यज्ञ-दान-तपः-कर्म न त्याज्यम् इति च अपरे ॥ १८-३॥

निश्चयम् श‍ृणु मे तत्र त्यागे भरतसत्तम । त्यागः हि पुरुष-व्याघ्र त्रिविधः सम्प्रकीर्तितः ॥ १८-४॥

यज्ञ-दान-तपः-कर्म न त्याज्यम् कार्यम् एव तत् । यज्ञः दानम् तपः च एव पावनानि मनीषिणाम् ॥ १८-५॥

एतानि अपि तु कर्माणि सङ्गम् त्यक्त्वा फलानि च । कर्तव्यानि इति मे पार्थ निश्चितम् मतम् उत्तमम् ॥ १८-६॥

नियतस्य तु संन्यासः कर्मणः न उपपद्यते । मोहात् तस्य परित्यागः तामसः परिकीर्तितः ॥ १८-७॥

दुःखम् इति एव यत् कर्म काय-क्लेश-भयात् त्यजेत् । सः कृत्वा राजसम् त्यागम् न एव त्याग-फलम् लभेत् ॥ १८-८॥

कार्यम् इति एव यत् कर्म नियतम् क्रियते अर्जुन । सङ्गम् त्यक्त्वा फलम् च एव सः त्यागः सात्त्विकः मतः ॥ १८-९॥

न द्वेष्टि अकुशलम् कर्म कुशले न अनुषज्जते । त्यागी सत्त्व-समाविष्टः मेधावी छिन्न-संशयः ॥ १८-१०॥

न हि देह-भृता शक्यम् त्यक्तुम् कर्माणि अशेषतः । यः तु कर्म-फल-त्यागी सः त्यागी इति अभिधीयते ॥ १८-११॥

अनिष्टम् इष्टम् मिश्रम् च त्रिविधम् कर्मणः फलम् । भवति अत्यागिनाम् प्रेत्य न तु संन्यासिनाम् क्वचित् ॥ १८-१२॥

पञ्च एतानि महा-बाहो कारणानि निबोध मे । साङ्ख्ये कृत-अन्ते प्रोक्तानि सिद्धये सर्व-कर्मणाम् ॥ १८-१३॥

अधिष्ठानम् तथा कर्ता करणम् च पृथक्-विधम् । विविधाः च पृथक् चेष्टाः दैवम् च एव अत्र पञ्चमम् ॥ १८-१४॥

शरीर-वाक्-मनोभिः यत् कर्म प्रारभते नरः । न्याय्यम् वा विपरीतं वा पञ्च एते तस्य हेतवः ॥ १८-१५॥

तत्र एवम् सति कर्तारम् आत्मानम् केवलम् तु यः । पश्यति अकृत-बुद्धित्वात् न सः पश्यति दुर्मतिः ॥ १८-१६॥

यस्य न अहंकृतः भावः बुद्धिः यस्य न लिप्यते । हत्वा अपि सः इमान् लोकान् न हन्ति न निबध्यते ॥ १८-१७॥

ज्ञानम् ज्ञेयम् परिज्ञाता त्रिविधा कर्म-चोदना । करणम् कर्म कर्ता इति त्रिविधः कर्म-संग्रहः ॥ १८-१८॥

ज्ञानम् कर्म च कर्ता च त्रिधा एव गुण-भेदतः । प्रोच्यते गुण-सङ्ख्याने यथावत् श‍ृणु तानि अपि ॥ १८-१९॥

सर्व-भूतेषु येन एकम् भावम् अव्ययम् ईक्षते । अविभक्तम् विभक्तेषु तत् ज्ञानम् विद्धि सात्त्विकम् ॥ १८-२०॥

पृथक्त्वेन तु यत् ज्ञानम् नाना-भावान् पृथक्-विधान् । वेत्ति सर्वेषु भूतेषु तत् ज्ञानम् विद्धि राजसम् ॥ १८-२१॥

यत् तु कृत्स्नवत् एकस्मिन् कार्ये सक्तम् अहैतुकम् । अतत्त्वार्थवत् अल्पम् च तत् तामसम् उदाहृतम् ॥ १८-२२॥

नियतम् सङ्ग-रहितम् अराग-द्वेषतः कृतम् । अफल-प्रेप्सुना कर्म यत् तत् सात्त्विकम् उच्यते ॥ १८-२३॥

यत् तु काम-ईप्सुना कर्म साहंकारेण वा पुनः । क्रियते बहुल आयासम् तत् राजसम् उदाहृतम् ॥ १८-२४॥

अनुबन्धम् क्षयम् हिंसाम् अनपेक्ष्य च पौरुषम् । मोहात् आरभ्यते कर्म यत् तत् तामसम् उच्यते ॥ १८-२५॥

मुक्त-सङ्गः अनहं-वादी धृति-उत्साह-समन्वितः । सिद्धि-असिद्ध्योः निर्विकारः कर्ता सात्त्विकः उच्यते ॥ १८-२६॥

रागी कर्म-फल-प्रेप्सुः लुब्धः हिंसात्मकः अशुचिः । हर्ष-शोक-अन्वितः कर्ता राजसः परिकीर्तितः ॥ १८-२७॥

अयुक्तः प्राकृतः स्तब्धः शठः नैष्कृतिकः अलसः । विषादी दीर्घ-सूत्री च कर्ता तामसः उच्यते ॥ १८-२८॥

बुद्धेः भेदम् धृतेः च एव गुणतः त्रिविधम् श‍ृणु । प्रोच्यमानम् अशेषेण पृथक्त्वेन धनञ्जय ॥ १८-२९॥

प्रवृत्तिम् च निवृत्तिम् च कार्य-अकार्ये भय-अभये । बन्धम् मोक्षम् च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ १८-३०॥

यया धर्मम् अधर्मम् च कार्यम् च अकार्यम् एव च । अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥ १८-३१॥

अधर्मम् धर्मम् इति या मन्यते तमसा आवृता । सर्व-अर्थान् विपरीतान् च बुद्धिः सा पार्थ तामसी ॥ १८-३२॥

धृत्या यया धारयते मनः-प्राण-इन्द्रिय-क्रियाः । योगेन अव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ १८-३३॥

यया तु धर्म-काम-अर्थान् धृत्या धारयते अर्जुन । प्रसङ्गेन फल-आकाङ्क्षी धृतिः सा पार्थ राजसी ॥ १८-३४॥

यया स्वप्नम् भयम् शोकम् विषादम् मदम् एव च । न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ १८-३५॥

सुखम् तु इदानीम् त्रिविधम् श‍ृणु मे भरतर्षभ । अभ्यासात् रमते यत्र दुःखान्तम् च निगच्छति ॥ १८-३६॥

यत् तत् अग्रे विषम् इव परिणामे अमृत-उपमम् । तत् सुखम् सात्त्विकम् प्रोक्तम् आत्म-बुद्धि-प्रसादजम् ॥ १८-३७॥

विषय-इन्द्रिय-संयोगात् यत् तत् अग्रे अमृत-उपमम् । परिणामे विषम् इव तत् सुखम् राजसम् स्मृतम् ॥ १८-३८॥

यत् अग्रे च अनुबन्धे च सुखम् मोहनम् आत्मनः । निद्रा-आलस्य-प्रमाद-उत्थम् तत् तामसम् उदाहृतम् ॥ १८-३९॥

न तत् अस्ति पृथिव्याम् वा दिवि देवेषु वा पुनः । सत्त्वम् प्रकृतिजैः मुक्तम् यत् एभिः स्यात् त्रिभिः गुणैः ॥ १८-४०॥

ब्राह्मण-क्षत्रिय-विशाम् शूद्राणाम् च परन्तप । कर्माणि प्रविभक्तानि स्वभाव-प्रभवैः गुणैः ॥ १८-४१॥

शमः दमः तपः शौचम् क्षान्तिः आर्जवम् एव च । ज्ञानम् विज्ञानम् आस्तिक्यम् ब्रह्म-कर्म स्वभावजम् ॥ १८-४२॥

शौर्यम् तेजः धृतिः दाक्ष्यम् युद्धे च अपि अपलायनम् । दानम् ईश्वर-भावः च क्षात्रम् कर्म स्वभावजम् ॥ १८-४३॥

कृषि-गौरक्ष्य-वाणिज्यम् वैश्य-कर्म स्वभावजम् । परिचर्या-आत्मकम् कर्म शूद्रस्य अपि स्वभावजम् ॥ १८-४४॥

स्वे स्वे कर्मणि अभिरतः संसिद्धिम् लभते नरः । स्वकर्म-निरतः सिद्धिम् यथा विन्दति तत् श‍ृणु ॥ १८-४५॥

यतः प्रवृत्तिः भूतानाम् येन सर्वम् इदम् ततम् । स्वकर्मणा तम् अभ्यर्च्य सिद्धिम् विन्दति मानवः ॥ १८-४६॥

श्रेयान् स्वधर्मः विगुणः पर-धर्मात् स्वनुष्ठितात् । स्वभाव-नियतम् कर्म कुर्वन् न आप्नोति किल्बिषम् ॥ १८-४७॥

सहजम् कर्म कौन्तेय सदोषम् अपि न त्यजेत् । सर्वारम्भाः हि दोषेण धूमेन अग्निः इव आवृताः ॥ १८-४८॥

असक्त-बुद्धिः सर्वत्र जित-आत्मा विगत-स्पृहः । नैष्कर्म्य-सिद्धिम् परमाम् संन्यासेन अधिगच्छति ॥ १८-४९॥

सिद्धिम् प्राप्तः यथा ब्रह्म तथा आप्नोति निबोध मे । समासेन एव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ १८-५०॥

बुद्ध्या विशुद्धया युक्तः धृत्या आत्मानम् नियम्य च । शब्दादीन् विषयान् त्यक्त्वा राग-द्वेषौ व्युदस्य च ॥ १८-५१॥

विविक्त-सेवी लघु-आशी यत-वाक्-काय-मानसः । ध्यान-योग-परः नित्यम् वैराग्यम् समुपाश्रितः ॥ १८-५२॥

अहंकारम् बलम् दर्पम् कामम् क्रोधम् परिग्रहम् । विमुच्य निर्ममः शान्तः ब्रह्म-भूयाय कल्पते ॥ १८-५३॥

ब्रह्म-भूतः प्रसन्न-आत्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मत्-भक्तिम् लभते पराम् ॥ १८-५४॥

भक्त्या माम् अभिजानाति यावान् यः च अस्मि तत्त्वतः । ततः माम् तत्त्वतः ज्ञात्वा विशते तत् अनन्तरम् ॥ १८-५५॥

सर्व-कर्माणि अपि सदा कुर्वाणः मत्-व्यपाश्रयः । मत्-प्रसादात् अवाप्नोति शाश्वतम् पदम् अव्ययम् ॥ १८-५६॥

चेतसा सर्व-कर्माणि मयि संन्यस्य मत्-परः । बुद्धि-योगम् उपाश्रित्य मत्-चित्तः सततम् भव ॥ १८-५७॥

मत्-चित्तः सर्व-दुर्गाणि मत्-प्रसादात् तरिष्यसि । अथ चेत् त्वम् अहंकारात् न श्रोष्यसि विनङ्क्ष्यसि ॥ १८-५८॥

यत् अहंकारम् आश्रित्य न योत्स्ये इति मन्यसे । मिथ्या एषः व्यवसायः ते प्रकृतिः त्वाम् नियोक्ष्यति ॥ १८-५९॥

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा । कर्तुम् न इच्छसि यत् मोहात् करिष्यसि अवशः अपि तत् ॥ १८-६०॥

ईश्वरः सर्व-भूतानाम् हृत्-देशे अर्जुन तिष्ठति । भ्रामयन् सर्व-भूतानि यन्त्र-आरूढानि मायया ॥ १८-६१॥

तम् एव शरणम् गच्छ सर्व-भावेन भारत । तत् प्रसादात् पराम् शान्तिम् स्थानम् प्राप्स्यसि शाश्वतम् ॥ १८-६२॥

इति ते ज्ञानम् आख्यातम् गुह्यात् गुह्यतरं मया । विमृश्य एतत् अशेषेण यथा इच्छसि तथा कुरु ॥ १८-६३॥

सर्व-गुह्यतमम् भूयः श‍ृणु मे परमम् वचः । इष्टः असि मे दृढम् इति ततः वक्ष्यामि ते हितम् ॥ १८-६४॥

मत्-मनाः भव मत्-भक्तः मत्-याजी माम् नमस्कुरु । माम् एव एष्यसि सत्यम् ते प्रतिजाने प्रियः असि मे ॥ १८-६५॥

सर्व-धर्मान् परित्यज्य माम् एकम् शरणम् व्रज । अहम् त्वा सर्व-पापेभ्यः मोक्ष्ययिष्यामि मा शुचः ॥ १८-६६॥

इदम् ते न अतपस्काय न अभक्ताय कदाचन । न च अशुश्रूषवे वाच्यम् न च माम् यः अभ्यसूयति ॥ १८-६७॥

यः इदम् परमम् गुह्यम् मत्-भक्तेषु अभिधास्यति । भक्तिम् मयि पराम् कृत्वा माम् एव एष्यति असंशयः ॥ १८-६८॥

न च तस्मात् मनुष्येषु कश्चित् मे प्रिय-कृत्तमः । भविता न च मे तस्मात् अन्यः प्रियतरः भुवि ॥ १८-६९॥

अध्येष्यते च यः इमम् धर्म्यम् संवादम् आवयोः । ज्ञान-यज्ञेन तेन अहम् इष्टः स्याम् इति मे मतिः ॥ १८-७०॥

श्रद्धावान् अनसूयः च श‍ृणुयात् अपि यः नरः । सः अपि मुक्तः शुभान् लोकान् प्राप्नुयात् पुण्य-कर्मणाम् ॥ १८-७१॥

कच्चित् एतत् श्रुतम् पार्थ त्वया एकाग्रेण चेतसा । कच्चित् अज्ञान-सम्मोहः प्रनष्टः ते धनञ्जय ॥ १८-७२॥

नष्टः मोहः स्मृतिः लब्धा त्वत् प्रसादात् मया अच्युत । स्थितः अस्मि गत-सन्देहः करिष्ये वचनम् तव ॥ १८-७३॥

इति अहम् वासुदेवस्य पार्थस्य च महात्मनः । संवादम् इमम् अश्रौषम् अद्भुतम् रोम-हर्षणम् ॥ १८-७४॥

व्यास-प्रसादात् श्रुतवान् एतत् गुह्यम् अहम् परम् । योगम् योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥ १८-७५॥

राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम् । केशव-अर्जुनयोः पुण्यम् हृष्यामि च मुहुः मुहुः ॥ १८-७६॥

तत् च संस्मृत्य संस्मृत्य रूपम् अति-अद्भुतम् हरेः । विस्मयः मे महान् राजन् हृष्यामि च पुनः पुनः ॥ १८-७७॥

यत्र योगेश्वरः कृष्णः यत्र पार्थः धनुर्धरः । तत्र श्रीः विजयः भूतिः ध्रुवा नीतिः मतिः मम ॥ १८-७८॥

Bhagavad Gita Chapter 18: Yoga through the Perfection of Renunciation and Surrender — Sanskrit (Devanagari) · ekadasi.day