Bhagavad Gītā · Chapter 17 of 18
श्रद्धात्रयविभागयोग
Yoga through Discerning the Three Divisions of Faith
ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धया अन्विताः । तेषाम् निष्ठा तु का कृष्ण सत्त्वम् आहो रजः तमः ॥ १७-१॥
त्रिविधा भवति श्रद्धा देहिनाम् सा स्वभावजा । सात्त्विकी राजसी च एव तामसी च इति ताम् शृणु ॥ १७-२॥
सत्त्व-अनुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयः अयम् पुरुषः यः यत् श्रद्धः सः एव सः ॥ १७-३॥
यजन्ते सात्त्विकाः देवान् यक्ष-रक्षांसि राजसाः । प्रेतान् भूतगणान् च अन्ये यजन्ते तामसाः जनाः ॥ १७-४॥
अशास्त्र-विहितम् घोरम् तप्यन्ते ये तपः जनाः । दम्भ-अहंकार-संयुक्ताः काम-राग-बल-अन्विताः ॥ १७-५॥
कर्षयन्तः शरीरस्थम् भूत-ग्रामम् अचेतसः । माम् च एव अन्तः-शरीरस्थम् तान् विद्धि आसुर-निश्चयान् ॥ १७-६॥
आहारः तु अपि सर्वस्य त्रिविधः भवति प्रियः । यज्ञः तपः तथा दानम् तेषाम् भेदम् इमम् शृणु ॥ १७-७॥
आयुः-सत्त्व-बल-आरोग्य-सुख-प्रीति-विवर्धनाः । रस्याः स्निग्धाः स्थिराः हृद्याः आहाराः सात्त्विक-प्रियाः ॥ १७-८॥
कट्वम्ल-लवण-अति-उष्ण-तीक्ष्ण-रूक्ष-विदाहिनः । आहाराः राजसस्य इह्टाः दुःख-शोक-आमय-प्रदाः ॥ १७-९॥
यातयामम् गत-रसम् पूति पर्युषितम् च यत् । उच्छिष्टम् अपि च अमेध्यम् भोजनम् तामस-प्रियम् ॥ १७-१०॥
अफल-आकाङ्क्षिभिः यज्ञः विधि-दृष्टः यः इज्यते । यष्टव्यम् एव इति मनः समाधाय सः सात्त्विकः ॥ १७-११॥
अभिसन्धाय तु फलम् दम्भार्थम् अपि च एव यत् । इज्यते भरत-श्रेष्ठ तम् यज्ञम् विद्धि राजसम् ॥ १७-१२॥
विधि-हीनम् असृष्ट-अन्नम् मन्त्र-हीनम् अदक्षिणम् । श्रद्धा-विरहितम् यज्ञम् तामसम् परिचक्षते ॥ १७-१३॥
देव-द्विज-गुरु-प्राज्ञ-पूजनम् शौचम् आर्जवम् । ब्रह्मचर्यम् अहिंसा च शारीरम् तपः उच्यते ॥ १७-१४॥
अनुद्वेगकरम् वाक्यम् सत्यम् प्रिय-हितम् च यत् । स्वाध्याय-अभ्यसनम् च एव वाङ्मयम् तपः उच्यते ॥ १७-१५॥
मनः-प्रसादः सौम्यत्वम् मौनम् आत्म-विनिग्रहः । भाव-संशुद्धिः इति एतत् तपः मानसम् उच्यते ॥ १७-१६॥
श्रद्धया परया तप्तम् तपः तत् त्रिविधम् नरैः । अफल-आकाङ्क्षिभिः युक्तैः सात्त्विकम् परिचक्षते ॥ १७-१७॥
सत्कार-मान-पूजार्थम् तपः दम्भेन च एव यत् । क्रियते तत् इह प्रोक्तम् राजसम् चलम् अध्रुवम् ॥ १७-१८॥
मूढ-ग्राहेण आत्मनः यत् पीडया क्रियते तपः । परस्य उत्सादनार्थम् वा तत् तामसम् उदाहृतम् ॥ १७-१९॥
दातव्यम् इति यत् दानम् दीयते अनुपकारिणे । देशे काले च पात्रे च तत् दानम् सात्त्विकम् स्मृतम् ॥ १७-२०॥
यत् तु प्रति-उपकारार्थम् फलम् उद्दिश्य वा पुनः । दीयते च परिक्लिष्टम् तत् दानम् राजसम् स्मृतम् ॥ १७-२१॥
अदेश-काले यत् दानम् अपात्रेभ्यः च दीयते । असत्कृतम् अवज्ञातम् तत् तामसम् उदाहृतम् ॥ १७-२२॥
ॐ तत् सत् इति निर्देशः ब्रह्मणः त्रिविधः स्मृतः । ब्राह्मणाः तेन वेदाः च यज्ञाः च विहिताः पुरा ॥ १७-२३॥
तस्मात् ॐ इति उदाहृत्य यज्ञ-दान-तपः-क्रियाः । प्रवर्तन्ते विधान-उक्ताः सततम् ब्रह्म-वादिनाम् ॥ १७-२४॥
तत् इति अनभिसन्धाय फलम् यज्ञ-तपः-क्रियाः । दान-क्रियाः च विविधाः क्रियन्ते मोक्ष-काङ्क्षिभिः ॥ १७-२५॥
सत्-भावे साधु-भावे च सत् इति एतत् प्रयुज्यते । प्रशस्ते कर्मणि तथा सत् शब्दः पार्थ युज्यते ॥ १७-२६॥
यज्ञे तपसि दाने च स्थितिः सत् इति च उच्यते । कर्म च एव तत्-अर्थीयम् सत् इति एव अभिधीयते ॥ १७-२७॥
अश्रद्धया हुतम् दत्तम् तपः तप्तम् कृतम् च यत् । असत् इति उच्यते पार्थ न च तत् प्रेत्य नो इह ॥ १७-२८॥