Chants

॥ श्रीशिवसहस्रनामस्तोत्रम् ॥

Śrī Śiva Sahasranāma Stotram

Sacred to Śiva · Mahābhārata, Anuśāsana Parva

महाभारतान्तर्गतम्

ततः स प्रयतो भूत्वा मम तात युधिष्ठिर । प्राञ्जलिः प्राह विप्रर्षिर्नामसङ्ग्रहमादितः ॥ १॥

उपमन्युरुवाच ब्रह्मप्रोक्तैरृषिप्रोक्तैर्वेदवेदाङ्गसम्भवैः । सर्वलोकेषु विख्यातं स्तुत्यं स्तोष्यामि नामभिः ॥ २॥

महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः । ऋषिणा तण्डिना भक्त्या कृतैर्वेदकृतात्मना ॥ ३॥

यथोक्तैः साधुभिः ख्यातैर्मुनिभिस्तत्त्वदर्शिभिः । प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम् ॥ ४॥

श्रुतेः सर्वत्र जगति ब्रह्मलोकावतारितैः । सत्यैस्तत्परमं ब्रह्म ब्रह्मप्रोक्तं सनातनम् । वक्ष्ये यदुकुलश्रेष्ठ श‍ृणुष्वावहितो मम ॥ ५॥

वरयैनं भवं देवं भक्तस्त्वं परमेश्वरम् । तेन ते श्रावयिष्यामि यत्तद्ब्रह्म सनातनम् ॥ ६॥

न शक्यं विस्तरात्कृत्स्नं वक्तुं सर्वस्य केनचित् । युक्तेनापि विभूतीनामपि वर्षशतैरपि ॥ ७॥

यस्यादिर्मध्यमन्तं च सुरैरपि न गम्यते । कस्तस्य शक्नुयाद्वक्तुं गुणान्कार्त्स्न्येन माधव ॥ ८॥

किन्तु देवस्य महतः सङ्क्षिप्तार्थपदाक्षरम् । शक्तितश्चरितं वक्ष्ये प्रसादात्तस्य धीमतः ॥ ९॥

अप्राप्य तु ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः । यदा तेनाभ्यनुज्ञातः स्तुतो वै स तदा मया ॥ १०॥

अनादिनिधनस्याहं जगद्योनेर्महात्मनः । नाम्नां कञ्चित्समुद्देशं वक्ष्याम्यव्यक्तयोनिनः ॥ ११॥

वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः । श‍ृणु नाम्नां चयं कृष्ण यदुक्तं पद्मयोनिना ॥ १२॥

दश नामसहस्राणि यान्याह प्रपितामहः । तानि निर्मथ्य मनसा दध्नो घृतमिवोद्धृतम् ॥ १३॥

गिरेः सारं यथा हेम पुष्पसारं यथा मधु । घृतात्सारं यथा मण्डस्तथैतत्सारमुद्धृतम्। १४॥

सर्वपापापहमिदं चतुर्वेदसमन्वितम् । प्रयत्नेनाधिगन्तव्यं धार्यं च प्रयतात्मना ॥ १५॥

माङ्गल्यं पौष्टिकं चैव रक्षोघ्नं पावनं महत् ॥ १६॥

इदं भक्ताय दातव्यं श्रद्दधानास्तिकाय च । नाश्रद्दधानरूपाय नास्तिकायाजितात्मने ॥ १७॥

यश्चाभ्यसूयते देवं कारणात्मानमीश्वरम् । स कृष्ण नरकं याति सहपूर्वैः सहात्मजैः ॥ १८॥

इदं ध्यानमिदं योगमिदं ध्येयमनुत्तमम् । इदं जप्यमिदं ज्ञानं रहस्यमिदमुत्तमम् ॥ १९॥

यं ज्ञात्वा अन्तकालेऽपि गच्छेत परमां गतिम् । पवित्रं मङ्गलं मेध्यं कल्याणमिदमुत्तमम् ॥ २०॥

इदं ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः । सर्वस्तवानां राजत्वे दिव्यानां समकल्पयत् ॥ २१॥

तदा प्रभृति चैवायमीश्वरस्य महात्मनः । स्तवराज इति ख्यातो जगत्यमरपूजितः ॥ २२॥

ब्रह्मलोकादयं स्वर्गे स्तवराजोऽवतारितः । यतस्तण्डिः पुरा प्राप तेन तण्डिकृतोऽभवत् ॥ २३॥

स्वर्गाच्चैवात्र भूर्लोकं तण्डिना ह्यवतारितः । सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ॥ २४॥

निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम् । ब्रह्मणामपि यद्ब्रह्म पराणामपि यत्परम् ॥ २५॥

तेजसामपि यत्तेजस्तपसामपि यत्तपः । शान्तीनामपि या शान्तिर्द्युतीनामपि या द्युतिः ॥ २६॥

दान्तानामपि यो दान्तो धीमतामपि या च धीः । देवानामपि यो देवो ऋषीणामपि यस्त्वृषिः ॥ २७॥

यज्ञानामपि यो यज्ञः शिवानामपि यः शिवः । रुद्राणामपि यो रुद्रः प्रभा प्रभवतामपि ॥ २८॥

योगिनामपि यो योगी कारणानां च कारणम् । यतो लोकाः सम्भवन्ति न भवन्ति यतः पुनः ॥ २९॥

सर्वभूतात्मभूतस्य हरस्यामिततेजसः । अष्टोत्तरसहस्रं तु नाम्नां शर्वस्य मे श‍ृणु । यच्छ्रुत्वा मनुजव्याघ्र सर्वान्कामानवाप्स्यसि ॥ ३०॥

(अथ सहस्रनामस्तोत्रम् ।) ॐ स्थिरः स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः । (प्रभुर्भानुः) सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥ ३१॥

जटी चर्मी शिखी खड्गी सर्वाङ्गः सर्वभावनः । (चर्मी शिखण्डी च) हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥ ३२॥

प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः । श्मशानवासी भगवान्खचरो गोचरोऽर्दनः ॥ ३३॥

अभिवाद्यो महाकर्मा तपस्वी भूतभावनः । उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ॥ ३४॥

महारूपो महाकायो वृषरूपो महायशाः । महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः ॥ ३५॥

लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः । पवित्रं च महांश्चैव नियमो नियमाश्रितः ॥ ३६॥

सर्वकर्मा स्वयम्भूत आदिरादिकरो निधिः । सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः ॥ ३७॥

चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः । अत्रिरत्र्यानमस्कर्ता मृगबाणार्पणोऽनघः ॥ ३८॥

महातपा घोरतपा अदीनो दीनसाधकः । संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ॥ ३९॥

योगी योज्यो महाबीजो महारेता महाबलः । सुवर्णरेताः सर्वज्ञः सुबीजो बीजवाहनः ॥ ४०॥

दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः । विश्वरूपः स्वयंश्रेष्ठो बलवीरो बलो गणः ॥ ४१॥ (बलवीरोऽबलो)

गणकर्ता गणपतिर्दिग्वासाः काम एव च । मन्त्रवित्परमो मन्त्रः सर्वभावकरो हरः ॥ ४२॥

कमण्डलुधरो धन्वी बाणहस्तः कपालवान् । अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् ॥ ४३॥

स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः । उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा ॥ ४४॥

दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च । श‍ृगालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः ॥ ४५॥

अजश्च बहुरूपश्च गन्धधारी कपर्द्यपि । ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभःस्थलः ॥ ४६॥

त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः । अहश्चरो नक्तञ्चरस्तिग्ममन्युः सुवर्चसः ॥ ४७॥

गजहा दैत्यहा कालो लोकधाता गुणाकरः । सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ॥ ४८॥

कालयोगी महानादः सर्वकामश्चतुष्पथः । निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥ ४९॥

बहुभूतो बहुधरः स्वर्भानुरमितो गतिः । नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः ॥ ५०॥

घोरो महातपाः पाशो नित्यो गिरिरुहो नभः । सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः ॥ ५१॥

अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः । दक्षयागापहारी च सुसहो मध्यमस्तथा ॥ ५२॥

तेजोपहारी बलहा मुदितोऽर्थोऽजितोऽवरः । (मुदितोऽर्थोऽजितो वरः) गम्भीरघोषा गम्भीरो गम्भीरबलवाहनः ॥ ५३॥

न्यग्रोधरूपो न्यग्रोधो वृक्षपर्णस्थितिर्विभुः । (वृक्षकर्ण) सुतीक्ष्णदशनश्चैव महाकायो महाननः ॥ ५४॥

विष्वक्सेनो हरिर्यज्ञः संयुगापीडवाहनः । तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् ॥ ५५॥

विष्णुप्रसादितो यज्ञः समुद्रो वडवामुखः । हुताशनसहायश्च प्रशान्तात्मा हुताशनः ॥ ५६॥

उग्रतेजा महातेजा जन्यो विजयकालवित् । ज्योतिषामयनं सिद्धिः सर्वविग्रह एव च ॥ ५७॥

शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली । वेणवी पणवी ताली खली कालकटङ्कटः ॥ ५८॥

नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयो गमः । (लयोऽगमः) प्रजापतिर्विश्वबाहुर्विभागः सर्वगोमुखः ॥ ५९॥ (सर्वगोऽमुखः)

विमोचनः सुसरणो हिरण्यकवचोद्भवः । (सुशरणो) मेढ्रजो बलचारी च महीचारी स्रुतस्तथा ॥ ६०॥

सर्वतूर्यनिनादी च सर्वातोद्यपरिग्रहः । व्यालरूपो गुहावासी गुहो माली तरङ्गवित् ॥ ६१॥

त्रिदशस्त्रिकालधृक्कर्मसर्वबन्धविमोचनः । बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः ॥ ६२॥

साङ्ख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः । प्रस्कन्दनो विभागज्ञो अतुल्यो यज्ञभागवित् ॥ ६३॥

सर्ववासः सर्वचारी दुर्वासा वासवोऽमरः । हैमो हेमकरो यज्ञः सर्वधारी धरोत्तमः ॥ ६४॥

लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः । सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥ ६५॥

मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः । (मुख्यो मुख्यश्च) सर्वकासप्रसादश्च सुबलो बलरूपधृत् ॥ ६६॥

सर्वकामवरश्चैव सर्वदः सर्वतोमुखः । आकाशनिर्विरूपश्च निपाती ह्यवशः खगः ॥ ६७॥

रौद्ररूपोंऽशुरादित्यो बहुरश्मिः सुवर्चसी । वसुवेगो महावेगो मनोवेगो निशाचरः ॥ ६८॥

सर्ववासी श्रियावासी उपदेशकरोऽकरः । मुनिरात्मनिरालोकः सम्भग्नश्च सहस्रदः ॥ ६९॥

पक्षी च पक्षरूपश्च अतिदीप्तो विशाम्पतिः । उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः ॥ ७०॥

वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः । सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः ॥ ७१॥

भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः । महासेनो विशाखश्च षष्टिभागो गवाम्पतिः ॥ ७२॥

वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च । वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः ॥ ७३॥

वाचस्पत्यो वाजसनो नित्यमाश्रमपूजितः । ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ॥ ७४॥

ईशान ईश्वरः कालो निशाचारी पिनाकवान् । निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः ॥ ७५॥

नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः । भगहारी निहन्ता च कालो ब्रह्मा पितामहः ॥ ७६॥

चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च । लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः ॥ ७७॥

बीजाध्यक्षो बीजकर्ता अव्यात्माऽनुगतो बलः । इतिहासः सकल्पश्च गौतमोऽथ निशाकरः ॥ ७८॥

दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः । लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः ॥ ७९॥

अक्षरं परमं ब्रह्म बलवच्छक्र एव च । नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः ॥ ८०॥

बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वमित्रजित् । वेदकारो मन्त्रकारो विद्वान्समरमर्दनः ॥ ८१॥

महामेघनिवासी च महाघोरो वशीकरः । अग्निर्ज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥ ८२॥

वृषणः शङ्करो नित्यं वर्चस्वी धूमकेतनः । (नित्यवर्चस्वी) नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः ॥ ८३॥

स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः । उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः ॥ ८४॥

कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनाम् । महापादो महाहस्तो महाकायो महायशाः ॥ ८५॥

महामूर्धा महामात्रो महानेत्रो निशालयः । महान्तको महाकर्णो महोष्ठश्च महाहनुः ॥ ८६॥

महानासो महाकम्बुर्महाग्रीवः श्मशानभाक् । महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः ॥ ८७॥

लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः । महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ॥ ८८॥

महानखो महारोमा महाकेशो महाजटः । प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः ॥ ८९॥

स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः । वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ॥ ९०॥

गण्डली मेरुधामा च देवाधिपतिरेव च । अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः ॥ ९१॥

यजुःपादभुजो गुह्यः प्रकाशो जङ्गमस्तथा । अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः ॥ ९२॥

उपकारः प्रियः सर्वः कनकः काञ्चनच्छविः । नाभिर्नन्दिकरो भावः पुष्करस्थपतिः स्थिरः ॥ ९३॥

द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः । नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥ ९४॥

सगणो गणकारश्च भूतवाहनसारथिः । भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥ ९५॥

लोकपालस्तथा लोको महात्मा सर्वपूजितः । (लोकपालस्तथाऽलोको) शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः ॥ ९६॥

आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः । विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः ॥ ९७॥

कपिलः कपिशः शुक्ल आयुश्चैवि परोऽपरः । गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः ॥ ९८॥

परश्वधायुधो देव अनुकारी सुबान्धवः । तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः ॥ ९९॥

उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः । सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ॥ १००॥

बन्धनो बन्धकर्ता च सुबन्धनविमोचनः । स यज्ञारिः स कामारिर्महादंष्ट्रो महायुधः ॥ १०१॥

बहुधानिन्दितः शर्वः शङ्करः शङ्करोऽधनः । (शङ्करोऽनघः) अमरेशो महादेवो विश्वदेवः सुरारिहा ॥ १०२॥

अहिर्बुध्न्योऽनिलाभश्च चेकितानो हविस्तथा । अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ॥ १०३॥

धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा । धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥ १०४॥

प्रभावः सर्वगो वायुरर्यमा सविता रविः । (सर्वगोवायुरर्यमा) उषङ्गुश्च विधाता च मान्धाता भूतभावनः ॥ १०५॥

विभुर्वर्णविभावी च सर्वकामगुणावहः । पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः ॥ १०६॥

बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी । कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः ॥ १०७॥

सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः । देवदेवः सुखासक्तः सदसत्सर्वरत्नवित् ॥ १०८॥

कैलासगिरिवासी च हिमवद्गिरिसंश्रयः । कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥ १०९॥

वणिजो वर्धकी वृक्षो बकुलश्चन्दनश्छदः । सारग्रीवो महाजत्रुरलोलश्च महौषधः ॥ ११०॥

सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः । सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥ १११॥

प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः । सारङ्गो नवचक्राङ्गः केतुमाली सभावनः ॥ ११२॥

भूतालयो भूतपतिरहोरात्रमनिन्दितः ॥ ११३॥

वाहिता सर्वभूतानां निलयश्च विभुर्भवः । अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः ॥ ११४॥ (प्राणधारकः)

धृतिमान्मतिमान्दक्षः सत्कृतश्च युगाधिपः । गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः। ११५॥

हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम् । प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः ॥ ११६॥

गान्धारश्च सुवासश्च तपःसक्तो रतिर्नरः । महागीतो महानृत्यो ह्यप्सरोगणसेवितः ॥ ११७॥

महाकेतुर्महाधातुर्नैकसानुचरश्चलः । आवेदनीय आदेशः सर्वगन्धसुखावहः ॥ ११८॥

तोरणस्तारणो वातः परिधी पतिखेचरः । संयोगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः ॥ ११९॥

नित्य आत्मसहायश्च देवासुरपतिः पतिः । युक्तश्च युक्तबाहुश्च देवो दिवि सुपर्वणः ॥ १२०॥

आषाढश्च सुषाण्ढश्च ध्रुवोऽथ हरिणो हरः । वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥ १२१॥

शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः । अक्षश्च रथयोगी च सर्वयोगी महाबलः ॥ १२२॥

समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः । निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः ॥ १२३॥

रत्नप्रभूतो रत्नाङ्गो महार्णवनिपानवित् । मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः ॥ १२४॥

आरोहणोऽधिरोहश्च शीलधारी महायशाः । सेनाकल्पो महाकल्पो योगो युगकरो हरिः ॥ १२५॥

युगरूपो महारूपो महानागहनो वधः । न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः ॥ १२६॥

बहुमालो महामालः शशी हरसुलोचनः । विस्तारो लवणः कूपस्त्रियुगः सफलोदयः ॥ १२७॥

त्रिलोचनो विषण्णाङ्गो मणिविद्धो जटाधरः । बिन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सहः ॥ १२८॥

निवेदनः सुखाजातः सुगन्धारो महाधनुः । गन्धपाली च भगवानुत्थानः सर्वकर्मणाम् ॥ १२९॥

मन्थानो बहुलो वायुः सकलः सर्वलोचनः । तलस्तालः करस्थाली ऊर्ध्वसंहननो महान् ॥ १३०॥

छत्रं सुच्छत्रो विख्यातो लोकः सर्वाश्रयः क्रमः । मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः। १३१॥

हर्यक्षः ककुभो वज्रो शतजिह्वः सहस्रपात् । सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ॥ १३२॥

सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् । पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः। १३३॥

ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान् । पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥ १३४॥

गभस्तिर्ब्रह्मकृद्ब्रह्मी ब्रह्मविद्ब्राह्मणो गतिः । अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः ॥ १३५॥

ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः । चन्दनी पद्मनालाग्रः सुरभ्युत्तरणो नरः ॥ १३६॥

कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृत् । उमापतिरुमाकान्तो जाह्नवीधृगुमाधवः ॥ १३७॥

वरो वराहो वरदो वरेण्यः सुमहास्वनः । महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ॥ १३८॥

पीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत् । सर्वपार्श्वमुखस्त्र्यक्षो धर्मसाधारणो वरः ॥ १३९॥

चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः । साध्यर्षिर्वसुरादित्यो विवस्वान्सविताऽमृतः १४०॥

व्यासः सर्गः सुसङ्क्षेपो विस्तरः पर्ययो नरः । ऋतु संवत्सरो मासः पक्षः सङ्ख्यासमापनः ॥ १४१॥

कला काष्ठा लवा मात्रा मुहूर्ताहःक्षपाः क्षणाः । विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्तु निर्गमः ॥ १४२॥

सदसद्व्यक्तमव्यक्तं पिता माता पितामहः । स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ १४३॥

निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परा गतिः । देवासुरविनिर्माता देवासुरपरायणः ॥ १४४॥

देवासुरगुरुर्देवो देवासुरनमस्कृतः । देवासुरमहामात्रो देवासुरगणाश्रयः ॥ १४५॥

देवासुरगणाध्यक्षो देवासुरगणाग्रणीः । देवातिदेवो देवर्षिर्देवासुरवरप्रदः ॥ १४६॥

देवासुरेश्वरो विश्वो देवासुरमहेश्वरः । सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसम्भवः ॥ १४७॥

उद्भित्त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः ॥

ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः ॥ १४८॥

विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः । सुयुक्तः शोभनो वज्री प्रासानां प्रभवोऽव्ययः ॥ १४९॥

गुहः कान्तो निजः सर्गः पवित्रं सर्वपावनः । श‍ृङ्गी श‍ृङ्गप्रियो बभ्रू राजराजो निरामयः ॥ १५०॥

अभिरामः सुरगणो विरामः सर्वसाधनः । ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः ॥ १५१॥

स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः । सिद्धार्थः सिद्धभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः ॥ १५२॥

व्रताधिपः परं ब्रह्म भक्तानां परमा गतिः । विमुक्तो मुक्ततेजाश्च श्रीमान्श्रीवर्धनो जगत् ॥ १५३॥

(इति सहस्रनामस्तोत्रम् ।

यथा प्रधानं भगवानिति भक्त्या स्तुतो मया । यन्न ब्रह्मादयो देवा विदुस्तत्त्वेन नर्षयः । स्तोतव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम् ॥ १५४॥

भक्तिं त्वेवं पुरस्कृत्य मया यज्ञपतिर्विभुः । ततोऽभ्यनुज्ञां सम्प्राप्य स्तुतो मतिमतां वरः ॥ १५५॥

शिवमेभिः स्तुवन्देवं नामभिः पुष्टिवर्धनैः । नित्ययुक्तः शुचिर्भक्तः प्राप्नोत्यात्मानमात्मना ॥ १५६॥

एतद्धि परमं ब्रह्म परं ब्रह्माधिगच्छति ॥ १५७॥

ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्परम् ॥ १५८॥

स्तूयमानो महादेवस्तुष्यते नियतात्मभिः । भक्तानुकम्पी भगवानात्मसंस्थाकरो विभुः ॥ १५९॥

तथैव च मनुष्येषु ये मनुष्याः प्रधानतः । आस्तिकाः श्रद्धधानाश्च बहुभिर्जन्मभिः स्तवैः ॥ १६०॥

भक्त्या ह्यनन्यमीशानं परं देवं सनातनम् । कर्मणा मनसा वाचा भावेनामिततेजसः ॥ १६१॥

शयाना जाग्रमाणाश्च व्रजन्नुपविशंस्तथा । उन्मिषन्निमिषंश्चैव चिन्तयन्तः पुनः पुनः ॥ १६२॥

श‍ृण्वन्तः श्रावयन्तश्च कथयन्तश्च ते भवम् । स्तुवन्तः स्तूयमानाश्च तुष्यन्ति च रमन्ति च ॥ १६३॥

जन्मकोटिसहस्रेषु नानासंसारयोनिषु । जन्तोर्विगतपापस्य भवे भक्तिः प्रजायते ॥ १६४॥

उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः । भाविनः कारणे चास्य सर्वयुक्तस्य सर्वथा ॥ १६५॥

एतद्देवेषु दुष्प्रापं मनुष्येषु न लभ्यते । निर्विघ्ना निश्चला रुद्रे भक्तिरव्यभिचारिणी ॥ १६६॥

तस्यैव च प्रसादेन भक्तिरुत्पद्यते नॄणाम् । येन यान्ति परां सिद्धिं तद्भागवतचेतसः ॥ १६७॥ (ये न)

ये सर्वभावानुगताः प्रपद्यन्ते महेश्वरम् । प्रपन्नवत्सलो देवः संसारात्तान्समुद्धरेत् ॥ १६८॥

एवमन्ये विकुर्वन्ति देवाः संसारमोचनम् । मनुष्याणामृते देवं नान्या शक्तिस्तपोबलम् ॥ १६९॥

इति तेनेन्द्रकल्पेन भगवान्सदसत्पतिः । कृत्तिवासाः स्तुतः कृष्ण तण्डिना शुभबुद्धिना ॥ १७०॥

स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत् । गीयते च स बुद्ध्येत ब्रह्मा शङ्करसन्निधौ ॥ १७१॥

इदं पुण्यं पवित्रं च सर्वदा पापनाशनम् । योगदं मोक्षदं चैव स्वर्गदं तोषदं तथा ॥ १७२॥

एवमेतत्पठन्ते य एकभक्त्या तु शङ्करम् । या गतिः साङ्ख्ययोगानां व्रजन्त्येतां गतिं तदा ॥ १७३॥

स्तवमेतं प्रयत्नेन सदा रुद्रस्य सन्निधौ । अब्दमेकं चरेद्भक्तः प्राप्नुयादीप्सितं फलम् ॥ १७४॥

एतद्रहस्यं परमं ब्रह्मणो हृदि संस्थितम् । ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे ॥ १७५॥

मृत्युः प्रोवाच रुद्रेभ्यो रुद्रेभ्यस्तण्डिमागमत् । महता तपसा प्राप्तस्तण्डिना ब्रह्मसद्मनि ॥ १७६॥

तण्डिः प्रोवाच शुक्राय गौतमाय च भार्गवः । वैवस्वताय मनवे गौतमः प्राह माधव ॥ १७७॥

नारायणाय साध्याय समाधिष्ठाय धीमते । यमाय प्राह भगवान्साध्यो नारायणोऽच्युतः ॥ १७८॥

नाचिकेताय भगवानाह वैवस्वतो यमः । मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत ॥ १७९॥

मार्कण्डेयान्मया प्राप्तो नियमेन जनार्दन । तवाप्यहममित्रघ्न स्तवं दद्यां ह्यविश्रुतम् ॥ १८०॥

स्वर्ग्यमारोग्यमायुष्यं धन्यं वेदेन संमितम् । नास्य विघ्नं विकुर्वन्ति दानवा यक्षराक्षसाः ॥ १८१॥

पिशाचा यातुधाना वा गुह्यका भुजगा अपि । यः पठेत शुचिः पार्थ ब्रह्मचारी जितेन्द्रियः । अभग्नयोगो वर्षं तु सोऽश्वमेधफलं लभेत् ॥ १८२॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥

श्रीमहादेवसहस्रनामस्तोत्रं समाप्तम् । श्रीकृष्णार्पणमस्तु । श्रीशिवार्पणमस्तु ।

Text: sanskritdocuments.org (Creative Commons). Source. Recitation text only — cross-check against your paramparā’s edition.

Śrī Śiva Sahasranāma Stotram (Shiva Sahasranamam) — Sanskrit Lyrics in Devanagari · ekadasi.day