Bhagavad Gītā · Chapter 10 of 18
विभूतियोग
Yoga through Appreciating the Infinite Opulences of God
भूयः एव महाबाहो शृणु मे परमम् वचः । यत् ते अहम् प्रीयमाणाय वक्ष्यामि हित-काम्यया ॥ १०-१॥
न मे विदुः सुर-गणाः प्रभवम् न महर्षयः । अहम् आदिः हि देवानाम् महर्षीणाम् च सर्वशः ॥ १०-२॥
यः माम् अजम् अनादिम् च वेत्ति लोक-महेश्वरम् । असम्मूढः सः मर्त्येषु सर्व-पापैः प्रमुच्यते ॥ १०-३॥
बुद्धिः ज्ञानम् असम्मोहः क्षमा सत्यम् दमः शमः । सुखम् दुःखम् भवः अभावः भयम् च अभयम् एव च ॥ १०-४॥
अहिंसा समता तुष्टिः तपः दानम् यशः अयशः । भवन्ति भावाः भूतानाम् मत्तः एव पृथक्-विधाः ॥ १०-५॥
महर्षयः सप्त पूर्वे चत्वारः मनवः तथा । मत् भावाः मानसाः जाताः येषाम् लोके इमाः प्रजाः ॥ १०-६॥
एताम् विभूतिम् योगम् च मम यः वेत्ति तत्त्वतः । सः अविकम्पेन योगेन युज्यते न अत्र संशयः ॥ १०-७॥
अहम् सर्वस्य प्रभवः मत्तः सर्वम् प्रवर्तते । इति मत्वा भजन्ते माम् बुधाः भाव-समन्विताः ॥ १०-८॥
मत् चित्ताः मत् गत-प्राणाः बोधयन्तः परस्परम् । कथयन्तः च माम् नित्यम् तुष्यन्ति च रमन्ति च ॥ १०-९॥
तेषाम् सतत-युक्तानाम् भजताम् प्रीति-पूर्वकम् । ददामि बुद्धि-योगम् तम् येन माम् उपयान्ति ते ॥ १०-१०॥
तेषाम् एव अनुकम्पार्थम् अहम् अज्ञानजम् तमः । नाशयामि आत्म-भावस्थः ज्ञान-दीपेन भास्वता ॥ १०-११॥
अर्जुन उवाच परम् ब्रह्म परम् धाम पवित्रम् परमम् भवान् । पुरुषम् शाश्वतम् दिव्यम् आदिदेवम् अजम् विभुम् ॥ १०-१२॥
आहुः त्वाम् ऋषयः सर्वे देवर्षिः नारदः तथा । असितः देवलः व्यासः स्वयम् च एव ब्रवीषि मे ॥ १०-१३॥
सर्वम् एतत् ऋतम् मन्ये यत् माम् वदसि केशव । न हि ते भगवन् व्यक्तिम् विदुः देवाः न दानवाः ॥ १०-१४॥
स्वयम् एव आत्मना आत्मानम् वेत्थ त्वम् पुरुषोत्तम । भूत-भावन भूत-ईश देव-देव जगत्-पते ॥ १०-१५॥
वक्तुम् अर्हसि अशेषेण दिव्याः हि आत्म-विभूतयः । याभिः विभूतिभिः लोकान् इमान् त्वम् व्याप्य तिष्ठसि ॥ १०-१६॥
कथम् विद्याम् अहम् योगिन् त्वाम् सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्यः असि भगवन् मया ॥ १०-१७॥
विस्तरेण आत्मनः योगम् विभूतिम् च जनार्दन । भूयः कथय तृप्तिः हि शृण्वतः न अस्ति मे अमृतम् ॥ १०-१८॥
हन्त ते कथयिष्यामि दिव्याः हि आत्म-विभूतयः । प्राधान्यतः कुरु-श्रेष्ठ न अस्ति अन्तः विस्तरस्य मे ॥ १०-१९॥
अहम् आत्मा गुडाका-ईश सर्व-भूत-आशय-स्थितः । अहम् आदिः च मध्यम् च भूतानाम् अन्तः एव च ॥ १०-२०॥
आदित्यानाम् अहम् विष्णुः ज्योतिषाम् रविः अंशुमान् । मरीचिः मरुताम् अस्मि नक्षत्राणाम् अहम् शशी ॥ १०-२१॥
वेदानाम् सामवेदः अस्मि देवानाम् अस्मि वासवः । इन्द्रियाणाम् मनः च अस्मि भूतानाम् अस्मि चेतना ॥ १०-२२॥
रुद्राणाम् शङ्करः च अस्मि वित्त-ईशः यक्ष-रक्षसाम् । वसूनाम् पावकः च अस्मि मेरुः शिखरिणाम् अहम् ॥ १०-२३॥
पुरोधसाम् च मुख्यम् माम् विद्धि पार्थ बृहस्पतिम् । सेनानीनाम् अहम् स्कन्दः सरसाम् अस्मि सागरः ॥ १०-२४॥
महर्षीणाम् भृगुः अहम् गिराम् अस्मि एकम् अक्षरम् । यज्ञानाम् जप-यज्ञः अस्मि स्थावराणाम् हिमालयः ॥ १०-२५॥
अश्वत्थः सर्व-वृक्षाणाम् देवर्षीणाम् च नारदः । गन्धर्वाणाम् चित्ररथः सिद्धानाम् कपिलः मुनिः ॥ १०-२६॥
उच्चैःश्रवसम् अश्वानाम् विद्धि माम् अमृत-उद्भवम् । ऐरावतम् गजेन्द्राणाम् नराणाम् च नराधिपम् ॥ १०-२७॥
आयुधानाम् अहम् वज्रम् धेनूनाम् अस्मि कामधुक् । प्रजनः च अस्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः ॥ १०-२८॥
अनन्तः च अस्मि नागानाम् वरुणः यादसाम् अहम् । पितॄणाम् अर्यमा च अस्मि यमः संयमताम् अहम् ॥ १०-२९॥
प्रह्लादः च अस्मि दैत्यानाम् कालः कलयताम् अहम् । मृगाणाम् च मृगेन्द्रः अहम् वैनतेयः च पक्षिणाम् ॥ १०-३०॥
पवनः पवताम् अस्मि रामः शस्त्र-भृताम् अहम् । झषाणाम् मकरः च अस्मि स्रोतसाम् अस्मि जाह्नवी ॥ १०-३१॥
सर्गाणाम् आदिः अन्तः च मध्यम् च एव अहम् अर्जुन । अध्यात्म-विद्या विद्यानाम् वादः प्रवदताम् अहम् ॥ १०-३२॥
अक्षराणाम् अकारः अस्मि द्वन्द्वः सामासिकस्य च । अहम् एव अक्षयः कालः धाता अहं विश्वतोमुखः ॥ १०-३३॥
मृत्युः सर्व-हरः च अहम् उद्भवः च भविष्यताम् । कीर्तिः श्रीः वाक् च नारीणाम् स्मृतिः मेधा धृतिः क्षमा ॥ १०-३४॥
बृहत्-साम तथा साम्नाम् गायत्री छन्दसाम् अहम् । मासानाम् मार्गशीर्षः अहम् ऋतूनाम् कुसुमाकरः ॥ १०-३५॥
द्यूतम् छलयताम् अस्मि तेजः तेजस्विनाम् अहम् । जयः अस्मि व्यवसायः अस्मि सत्त्वम् सत्त्ववताम् अहम् ॥ १०-३६॥
वृष्णीनाम् वासुदेवः अस्मि पाण्डवानाम् धनञ्जयः । मुनीनाम् अपि अहं व्यासः कवीनाम् उशना कविः ॥ १०-३७॥
दण्डः दमयताम् अस्मि नीतिः अस्मि जिगीषताम् । मौनम् च एव अस्मि गुह्यानाम् ज्ञानम् ज्ञानवताम् अहम् ॥ १०-३८॥
यत् च अपि सर्व-भूतानाम् बीजम् तत् अहम् अर्जुन । न तत् अस्ति विना यत् स्यात् मया भूतम् चर-अचरम् ॥ १०-३९॥
न अन्तः अस्ति मम दिव्यानाम् विभूतीनाम् परन्तप । एषः तु उद्देशतः प्रोक्तः विभूतेः विस्तरः मया ॥ १०-४०॥
यत् यत् विभूतिमत् सत्त्वम् श्रीमत् ऊर्जितम् एव वा । तत् तत् अवगच्छ त्वम् मम तेजः अंश-सम्भवम् ॥ १०-४१॥
अथवा बहुना एतेन किम् ज्ञातेन तव अर्जुन । विष्टभ्य अहम् इदम् कृत्स्नम् एक-अंशेन स्थितः जगत् ॥ १०-४२॥