Bhagavad Gītā · Chapter 9 of 18

राजविद्याराजगुह्ययोग

Yoga through the King of Sciences

इदम् तु ते गुह्यतमम् प्रवक्ष्यामि अनसूयवे । ज्ञानम् विज्ञान-सहितम् यत् ज्ञात्वा मोक्ष्यसे अशुभात् ॥ ९-१॥

राज-विद्या राज-गुह्यम् पवित्रम्म् इदम् उत्तमम् । प्रत्यक्ष-अवगमम् धर्म्यम् सुसुखम् कर्तुम् अव्ययम् ॥ ९-२॥

अश्रद्दधानाः पुरुषाः धर्मस्य अस्य परन्तप । अप्राप्य माम् निवर्तन्ते मृत्यु-संसार-वर्त्मनि ॥ ९-३॥

मया ततम् इदम् सर्वम् जगत् अव्यक्त-मूर्तिना । मत्-स्थानि सर्व-भूतानि न च अहम् तेषु अवस्थितः ॥ ९-४॥

न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् । भूत-भृत् न च भूत-स्थः मम आत्मा भूत-भावनः ॥ ९-५॥

यथा आकाश-स्थितः नित्यम् वायुः सर्वत्रगः महान् । तथा सर्वाणि भूतानि मत्-स्थानि इति उपधारय ॥ ९-६॥

सर्व-भूतानि कौन्तेय प्रकृतिम् यान्ति मामिकाम् । कल्प-क्षये पुनः तानि कल्प-आदौ विसृजामि अहम् ॥ ९-७॥

प्रकृतिम् स्वाम् अवष्टभ्य विसृजामि पुनः पुनः । भूत-ग्रामम् इमम् कृत्स्नम् अवशम् प्रकृतेः वशात् ॥ ९-८॥

न च माम् तानि कर्माणि निबध्नन्ति धनञ्जय । उदासीनवत् आसीनम् असक्तम् तेषु कर्मसु ॥ ९-९॥

मया अध्यक्षेण प्रकृतिः सूयते सचर-अचरम् । हेतुना अनेन कौन्तेय जगत् विपरिवर्तते ॥ ९-१०॥

अवजानन्ति माम् मूढाः मानुषीम् तनुम् आश्रितम् । परम् भावम् अजानन्तः मम भूत-महेश्वरम् ॥ ९-११॥

मोघ-आशाः मोघ-कर्माणः मोघ-ज्ञानाः विचेतसः । राक्षसीम् आसुरीम् च एव प्रकृतिम् मोहिनीम् श्रिताः ॥ ९-१२॥

महात्मानः तु माम् पार्थ दैवीम् प्रकृतिम् आश्रिताः । भजन्ति अनन्य-मनसः ज्ञात्वा भूतादिम् अव्ययम् ॥ ९-१३॥

सततम् कीर्तयन्तः माम् यतन्तः च दृढ-व्रताः । नमस्यन्तः च माम् भक्त्या नित्य-युक्ताः उपासते ॥ ९-१४॥

ज्ञान-यज्ञेन च अपि अन्ये यजन्तः माम् उपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ ९-१५॥

अहम् क्रतुः अहम् यज्ञः स्वधा अहम् अहम् औषधम् । मन्त्रः अहम् अहम् एव आज्यम् अहम् अग्निः अहम् हुतम् ॥ ९-१६॥

पिता अहम् अस्य जगतः माता धाता पितामहः । वेद्यम् पवित्रम् ओंकारः ऋक्-साम यजुः एव च ॥ ९-१७॥

गतिः भर्ता प्रभुः साक्षी निवासः शरणम् सुहृत् । प्रभवः प्रलयः स्थानम् निधानम् बीजम् अव्ययम् ॥ ९-१८॥

तपामि अहम् अहम् वर्षम् निगृह्णामि उत्सृजामि च । अमृतम् च एव मृत्युः च सत् असत् च अहम् अर्जुन ॥ ९-१९॥

त्रै-विद्याः माम् सोमपाः पूत-पापाः यज्ञैः इष्ट्वा स्वर्गतिम् प्रार्थयन्ते । ते पुण्यम् आसाद्य सुरेन्द्र-लोकं अश्नन्ति दिव्यान् दिवि देव-भोगान् ॥ ९-२०॥

ते तम् भुक्त्वा स्वर्ग-लोकम् विशालम् क्षीणे पुण्ये मर्त्य-लोकम् विशन्ति । एवम् त्रयी-धर्मम् अनुप्रपन्नाः गत-आगतम् काम-कामाः लभन्ते ॥ ९-२१॥

अनन्याः चिन्तयन्तः माम् ये जनाः पर्युपासते । तेषाम् नित्य-अभियुक्तानाम् योग-क्षेमम् वहामि अहम् ॥ ९-२२॥

ये अपि अन्य-देवता-भक्ताः यजन्ते श्रद्धया अन्विताः । ते अपि माम् एव कौन्तेय यजन्ति अविधि-पूर्वकम् ॥ ९-२३॥

अहम् हि सर्व-यज्ञानाम् भोक्ता च प्रभुः एव च । न तु माम् अभिजानन्ति तत्त्वेन अतः च्यवन्ति ते ॥ ९-२४॥

यान्ति देव-व्रताः देवान् पितॄन् यान्ति पितृ-व्रताः । भूतानि यान्ति भूत-इज्याः यान्ति मत् याजिनः अपि माम् ॥ ९-२५॥

पत्रम् पुष्पम् फलम् तोयम् यः मे भक्त्या प्रयच्छति । तत् अहम् भक्ति-उपहृतम् अश्नामि प्रयत आत्मनः ॥ ९-२६॥

यत् करोषि यत् अश्नासि यत् जुहोषि ददासि यत् । यत् तपस्यसि कौन्तेय तत् कुरुष्व मत् अर्पणम् ॥ ९-२७॥

शुभ-अशुभ-फलैः एवम् मोक्ष्यसे कर्म-बन्धनैः । संन्यास-योग-युक्त-आत्मा विमुक्तः माम् उपैष्यसि ॥ ९-२८॥

समः अहम् सर्व-भूतेषु न मे द्वेष्यः अस्ति न प्रियः । ये भजन्ति तु माम् भक्त्या मयि ते तेषु च अपि अहम् ॥ ९-२९॥

अपि चेत् सु-दुः-आचारः भजते माम् अनन्य-भाक् । साधुः एव सः मन्तव्यः सम्यक् व्यवसितः हि सः ॥ ९-३०॥

क्षिप्रम् भवति धर्म-आत्मा शश्वत् शान्तिम् निगच्छति । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ ९-३१॥

माम् हि पार्थ व्यपाश्रित्य ये अपि स्युः पाप-योनयः । स्त्रियः वैश्याः तथा शूद्राः ते अपि यान्ति पराम् गतिम् ॥ ९-३२॥

किम् पुनः ब्राह्मणाः पुण्याः भक्ताः राजर्षयः तथा । अनित्यम् असुखम् लोकम् इमम् प्राप्य भजस्व माम् ॥ ९-३३॥

मत्-मनाः भव मत्-भक्तः मत्-याजी माम् नमस्कुरु । माम् एव एष्यसि युक्त्वा एवम् आत्मानम् मत्-परायणः ॥ ९-३४॥

Bhagavad Gita Chapter 9: Yoga through the King of Sciences — Sanskrit (Devanagari) · ekadasi.day