Bhagavad Gītā · Chapter 11 of 18

विश्वरूपदर्शनयोग

Yoga through Beholding the Cosmic Form of God

अर्जुन उवाच मत् अनुग्रहाय परमम् गुह्यम् अध्यात्म-संज्ञितम् । यत् त्वया उक्तम् वचः तेन मोहः अयम् विगतः मम ॥ ११-१॥

भव अपि अयौ हि भूतानाम् श्रुतौ विस्तरशः मया । त्वत्तः कमल-पत्र-अक्ष माहात्म्यम् अपि च अव्ययम् ॥ ११-२॥

एवम् एतत् यथा आत्थ त्वम् आत्मानं परमेश्वर । द्रष्टुम् इच्छामि ते रूपम् ऐश्वरम् पुरुषोत्तम ॥ ११-३॥

मन्यसे यदि तत् शक्यम् मया द्रष्टुम् इति प्रभो । योगेश्वर ततः मे त्वम् दर्शय आत्मानम् अव्ययम् ॥ ११-४॥

पश्य मे पार्थ रूपाणि शतशः अथ सहस्रशः । नाना-विधानि दिव्यानि नाना-वर्ण-आकृतीनि च ॥ ११-५॥

पश्य आदित्यान् वसून् रुद्रान् अश्विनौ मरुताः तथा । बहूनि अदृष्ट-पूर्वाणि पश्य आश्चर्याणि भारत ॥ ११-६॥

इह एकस्थम् जगत् कृत्स्नम् पश्य अद्य सचर-अचरम् । मम देहे गुडाकेश यत् च अन्यत् द्रष्टुम् इच्छसि ॥ ११-७॥

न तु माम् शक्यसे द्रष्टुम् अनेन एव स्व-चक्षुषा । दिव्यम् ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् ॥ ११-८॥

सञ्जय उवाच एवम् उक्त्वा ततः राजन् महा-योग-ईश्वरः हरिः । दर्शयामास पार्थाय परमम् रूपम् ऐश्वरम् ॥ ११-९॥

अनेक-वक्त्र-नयनम् अनेक-अद्भुत-दर्शनम् । अनेक-दिव्य-आभरणम् दिव्य-अनेक-उद्यत-आयुधम् ॥ ११-१०॥

दिव्य-माल्य-अम्बर-धरम् दिव्य-गन्ध-अनुलेपनम् । सर्व-आश्चर्यमयम् देवम् अनन्तम् विश्वतोमुखम् ॥ ११-११॥

दिवि सूर्य-सहस्रस्य भवेत् युगपत् उत्थिता । यदि भाः सदृशी सा स्यात् भासः तस्य महात्मनः ॥ ११-१२॥

तत्र एकस्थम् जगत् कृत्स्नम् प्रविभक्तम् अनेकधा । अपश्यत् देव-देवस्य शरीरे पाण्डवः तदा ॥ ११-१३॥

ततः सः विस्मय-आविष्टः हृष्ट-रोमा धनञ्जयः । प्रणम्य शिरसा देवम् कृत-अञ्जलिः अभाषत ॥ ११-१४॥

अर्जुन उवाच पश्यामि देवान् तव देव देहे सर्वान् तथा भूत-विशेष-सङ्घान् । ब्रह्माणम् ईशम् कमल-आसनस्थं ऋषीन् च सर्वान् उरगान् च दिव्यान् ॥ ११-१५॥

अनेक-बाहु-उदर-वक्त्र-नेत्रम् पश्यामि त्वाम् सर्वतः अनन्त-रूपम् । न अन्तम् न मध्यम् न पुनः तव आदिम् पश्यामि विश्वेश्वर विश्वरूप ॥ ११-१६॥

किरीटिनम् गदिनम् चक्रिणम् च तेजो-राशिम् सर्वतः दीप्तिमन्तम् । पश्यामि त्वाम् दुर्निरीक्ष्यम् समन्तात् दीप्त-अनल-अर्क-द्युतिम् अप्रमेयम् ॥ ११-१७॥

त्वम् अक्षरम् परमम् वेदितव्यम् त्वम् अस्य विश्वस्य परम् निधानम् । त्वम् अव्ययः शाश्वत-धर्म-गोप्ता सनातनः त्वम् पुरुषः मतः मे ॥ ११-१८॥

अनादि-मध्य-अन्तम् अनन्त-वीर्यम् अनन्त-बाहुम् शशि-सूर्य-नेत्रम् । पश्यामि त्वाम् दीप्त-हुताश-वक्त्रम् स्व-तेजसा विश्वम् इदम् तपन्तम् ॥ ११-१९॥

द्यावा-पृथिव्योः इदम् अन्तरम् हि व्याप्तम् त्वया एकेन दिशः च सर्वाः । दृष्ट्वा अद्भुतम् रूपम् उग्रम् तव इदम् लोक-त्रयम् प्रव्यथितम् महात्मन् ॥ ११-२०॥

अमी हि त्वाम् सुर-सङ्घाः विशन्ति केचित् भीताः प्राञ्जलयः गृणन्ति । स्वस्ति इति उक्त्वा महर्षि-सिद्ध-सङ्घाः स्तुवन्ति त्वाम् स्तुतिभिः पुष्कलाभिः ॥ ११-२१॥

रुद्र-आदित्याः वसवः ये च साध्याः विश्वे अश्विनौ मरुतः च उष्मपाः च । गन्धर्व-यक्ष-असुर-सिद्ध-सङ्घाः वीक्षन्ते त्वाम् विस्मिताः च एव सर्वे ॥ ११-२२॥

रूपम् महत् ते बहु-वक्त्र-नेत्रम् महा-बाहो बहु-बाहु-ऊरु-पादम् । बहु-उदरम् बहु-दंष्ट्रा-करालम् दृष्ट्वा लोकाः प्रव्यथिताः तथा अहम् ॥ ११-२३॥

नभः-स्पृशम् दीप्तम् अनेक-वर्णम् व्यात्त-आननम् दीप्त-विशाल-नेत्रम् । दृष्ट्वा हि त्वाम् प्रव्यथित-अन्तर-आत्मा धृतिम् न विन्दामि शमम् च विष्णो ॥ ११-२४॥

दंष्ट्रा-करालानि च ते मुखानि दृष्ट्वा एव काल-अनल-सन्निभानि । दिशः न जाने न लभे च शर्म प्रसीद देवेश जगत्-निवास ॥ ११-२५॥

अमी च त्वाम् धृतराष्ट्रस्य पुत्राः सर्वे सह एव अवनिपाल-सङ्घैः । भीष्मः द्रोणः सूत-पुत्रः तथा असौ सह अस्मदीयैः अपि योध-मुख्यैः ॥ ११-२६॥

वक्त्राणि ते त्वरमाणाः विशन्ति दंष्ट्रा-करालानि भयानकानि । केचित् विलग्नाः दशन-अन्तरेषु सन्दृश्यन्ते चूर्णितैः उत्तम-अङ्गैः ॥ ११-२७॥

यथा नदीनाम् बहवः अम्बु-वेगाः समुद्रम् एव अभिमुखाः द्रवन्ति । तथा तव अमी नर-लोक-वीराः विशन्ति वक्त्राणि अभिविज्वलन्ति ॥ ११-२८॥

यथा प्रदीप्तम् ज्वलनम् पतङ्गाः विशन्ति नाशाय समृद्ध-वेगाः । तथा एव नाशाय विशन्ति लोकाः तव अपि वक्त्राणि समृद्ध-वेगाः ॥ ११-२९॥

लेलिह्यसे ग्रसमानः समन्तात् लोकान् समग्रान् वदनैः ज्वलद्भिः । तेजोभिः आपूर्य जगत् समग्रम् भासः तव उग्राः प्रतपन्ति विष्णो ॥ ११-३०॥

आख्याहि मे को भवानुग्ररूपो नमः अस्तु ते देववर प्रसीद । विज्ञातुम् इच्छामि भवन्तम् आद्यम् न हि प्रजानामि तव प्रवृत्तिम् ॥ ११-३१॥

कालः अस्मि लोक-क्षय-कृत् प्रवृद्धः लोकान् समाहर्तुम् इह प्रवृत्तः । ऋते अपि त्वाम् न भविष्यन्ति सर्वे ये अवस्थिताः प्रत्यनीकेषु योधाः ॥ ११-३२॥

तस्मात् त्वम् उत्तिष्ठ यशः लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यम् समृद्धम् । मया एव एते निहताः पूर्वम् एव निमित्त-मात्रम् भव सव्य-साचिन् ॥ ११-३३॥

द्रोणम् च भीष्मम् च जयद्रथम् च कर्णम् तथा अन्यान् अपि योध-वीरान् । मया हतान् त्वम् जहि मा व्यथिष्ठाः युध्यस्व जेता असि रणे सपत्नान् ॥ ११-३४॥

सञ्जय उवाच एतत् श्रुत्वा वचनम् केशवस्य कृत-अञ्जलिः वेपमानः किरीटी । नमस्कृत्वा भूयः एव आह कृष्णम् सगद्गदम् भीत-भीतः प्रणम्य ॥ ११-३५॥

अर्जुन उवाच स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यति अनुरज्यते च । रक्षांसि भीतानि दिशः द्रवन्ति सर्वे नमस्यन्ति च सिद्ध-सङ्घाः ॥ ११-३६॥

कस्मात् च ते न नमेरन् महात्मन् गरीयसे ब्रह्मणः अपि आदि-कर्त्रे । अनन्त देवेश जगत् निवास त्वम् अक्षरम् सत् असत् तत् परं यत् ॥ ११-३७॥

त्वम् आदिदेवः पुरुषः पुराणः त्वम् अस्य विश्वस्य परम् निधानम् । वेत्ता असि वेद्यम् च परम् च धाम त्वया ततम् विश्वम् अनन्त-रूप ॥ ११-३८॥

वायुः यमः अग्निः वरुणः शशाङ्कः प्रजापतिः त्वम् प्रपितामहः च । नमः नमः ते अस्तु सहस्र-कृत्वः पुनः च भूयः अपि नमः नमः ते ॥ ११-३९॥

नमः पुरस्तात् अथ पृष्ठतः ते नमः अस्तु ते सर्वतः एव सर्व । अनन्त-वीर्य-अमित-विक्रमः त्वम् सर्वम् समाप्नोषि ततः असि सर्वः ॥ ११-४०॥

सखा इति मत्वा प्रसभम् यत् उक्तम् हे कृष्ण हे यादव हे सखा इति । अजानता महिमानम् तव इदम् मया प्रमादात् प्रणयेन वा अपि ॥ ११-४१॥

यत् च अवहासार्थम् असत् कृतः असि विहार-शय्या-आसन-भोजनेषु । एकः अथवा अपि अच्युत तत् समक्षम् तत् क्षामये त्वाम् अहम् अप्रमेयम् ॥ ११-४२॥

पिता असि लोकस्य चर-अचरस्य त्वम् अस्य पूज्यः च गुरुः गरीयान् । न त्वत् समः अस्ति अभ्यधिकः कुतः अन्यः लोक-त्रये अपि अप्रतिम-प्रभाव ॥ ११-४३॥

तस्मात् प्रणम्य प्रणिधाय कायम् प्रसादये त्वाम् अहम् ईशम् ईड्यम् । पिता इव पुत्रस्य सखा इव सख्युः प्रियः प्रियायाः अर्हसि देव सोढुम् ॥ ११-४४॥

अदृष्ट-पूर्वम् हृषितः अस्मि दृष्ट्वा भयेन च प्रव्यथितम् मनः मे । तत् एव मे दर्शय देव रूपम् प्रसीद देवेश जगत्-निवास ॥ ११-४५॥

किरीटिनम् गदिनम् चक्र-हस्तम् इच्छामि त्वाम् द्रष्टुम् अहम् तथा एव । तेन एव रूपेण चतुः-भुजेन सहस्र-बाहो भव विश्व-मूर्ते ॥ ११-४६॥

मया प्रसन्नेन तव अर्जुन इदम् रूपम् परम् दर्शितम् आत्म-योगात् । तेजोमयम् विश्वम् अनन्तम् आद्यम् यत् मे त्वत् अन्येन न दृष्ट-पूर्वम् ॥ ११-४७॥

न वेद-यज्ञ-अध्ययनैः न दानैः न च क्रियाभिः न तपोभिः उग्रैः । एवम् रूपः शक्यः अहम् नृ-लोके द्रष्टुम् त्वत् अन्येन कुरु-प्रवीर ॥ ११-४८॥

मा ते व्यथा मा च विमूढ-भावः दृष्ट्वा रूपम् घोरम् ईदृक् मम इदम् । व्यपेत-भीः प्रीत-मनाः पुनः त्वम् तत् एव मे रूपम् इदम् प्रपश्य ॥ ११-४९॥

सञ्जय उवाच इति अर्जुनम् वासुदेवः तथा उक्त्वा स्वकम् रूपम् दर्शयामास भूयः । आश्वासयामास च भीतम् एनम् भूत्वा पुनः सौम्य-वपुः महात्मा ॥ ११-५०॥

अर्जुन उवाच दृष्ट्वा इदम् मानुषम् रूपम् तव सौम्यम् जनार्दन । इदानीम् अस्मि संवृत्तः सचेताः प्रकृतिम् गतः ॥ ११-५१॥

सुदुर्दर्शम् इदम् रूपम् दृष्टवान् असि यत् मम । देवाः अपि अस्य रूपस्य नित्यम् दर्शन-काङ्क्षिणः ॥ ११-५२॥

न अहम् वेदैः न तपसा न दानेन न च इज्यया । शक्यः एवम्-विधः द्रष्टुम् दृष्टवान् असि माम् यथा ॥ ११-५३॥

भक्त्या तु अनन्यया शक्यः अहम् एवम्-विधः अर्जुन । ज्ञातुम् द्रष्टुम् च तत्त्वेन प्रवेष्टुम् च परन्तप ॥ ११-५४॥

मत्-कर्म-कृत् मत्-परमः मत्-भक्तः सङ्ग-वर्जितः । निर्वैरः सर्व-भूतेषु यः सः माम् एति पाण्डव ॥ ११-५५॥

Bhagavad Gita Chapter 11: Yoga through Beholding the Cosmic Form of God — Sanskrit (Devanagari) · ekadasi.day