Bhagavad Gītā · Chapter 12 of 18
भक्तियोग
The Yoga of Devotion
एवम् सतत-युक्ताः ये भक्ताः त्वाम् पर्युपासते । ये च अपि अक्षरम् अव्यक्तम् तेषाम् के योग-वित्तमाः ॥ १२-१॥
मयि आवेश्य मनः ये माम् नित्य-युक्ताः उपासते । श्रद्धया परया उपेताः ते मे युक्ततमाः मताः ॥ १२-२॥
ये तु अक्षरम् अनिर्देश्यम् अव्यक्तम् पर्युपासते । सर्वत्रगम् अचिन्त्यम् च कूटस्थम् अचलम् ध्रुवम् ॥ १२-३॥
सन्नियम्य इन्द्रिय-ग्रामम् सर्वत्र सम-बुद्धयः । ते प्राप्नुवन्ति माम् एव सर्व-भूत-हिते रताः ॥ १२-४॥
क्लेशः अधिकतरः तेषाम् अव्यक्त-आसक्त-चेतसाम् ॥ अव्यक्ता हि गतिः दुःखम् देहवद्भिः अवाप्यते ॥ १२-५॥
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्-पराः । अनन्येन एव योगेन माम् ध्यायन्तः उपासते ॥ १२-६॥
तेषाम् अहम् समुद्धर्ता मृत्यु-संसार-सागरात् । भवामि न चिरात् पार्थ मयि आवेशित-चेतसाम् ॥ १२-७॥
मयि एव मनः आधत्स्व मयि बुद्धिम् निवेशय । निवसिष्यसि मयि एव अतः ऊर्ध्वम् न संशयः ॥ १२-८॥
अथ चित्तम् समाधातुम् न शक्नोषि मयि स्थिरम् । अभ्यास-योगेन ततः माम् इच्छ आप्तुम् धनञ्जय ॥ १२-९॥
अभ्यासे अपि असमर्थः असि मत्-कर्म-परमः भव । मत्-अर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि ॥ १२-१०॥
अथ एतत् अपि अशक्तः असि कर्तुम् मत्-योगम् आश्रितः । सर्व-कर्म-फल-त्यागम् ततः कुरु यत-आत्मवान् ॥ १२-११॥
श्रेयः हि ज्ञानम् अभ्यासात् ज्ञानात् ध्यानम् विशिष्यते । ध्यानात् कर्म-फल-त्यागः त्यागात् शान्तिः अनन्तरम् ॥ १२-१२॥
अद्वेष्टा सर्व-भूतानां मैत्रः करुणः एव च । निर्ममः निरहङ्कारः सम-दुःख-सुखः क्षमी ॥ १२-१३॥
सन्तुष्टः सततम् योगी यत-आत्मा दृढ-निश्चयः । मयि अर्पित-मनः-बुद्धिः यः मत्-भक्तः सः मे प्रियः ॥ १२-१४॥
यस्मात् न उद्विजते लोकः लोकात् न उद्विजते च यः । हर्ष-आमर्ष-भय-उद्वेगैः मुक्तः यः सः च मे प्रियः ॥ १२-१५॥
अनपेक्षः शुचिः दक्षः उदासीनः गत-व्यथः । सर्व-आरम्भ-परित्यागी यः मत्-भक्तः सः मे प्रियः ॥ १२-१६॥
यः न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभ-अशुभ-परित्यागी भक्तिमान् यः सः मे प्रियः ॥ १२-१७॥
समः शत्रौ च मित्रे च तथा मान-अपमानयोः । शीत-उष्ण-सुख-दुःखेषु समः सङ्ग-विवर्जितः ॥ १२-१८॥
तुल्य-निन्दा-स्तुतिः मौनी सन्तुष्टः येन केनचित् । अनिकेतः स्थिर-मतिः भक्तिमान् मे प्रियः नरः ॥ १२-१९॥
ये तु धर्म्य-अमृतम् इदम् यथा उक्तम् पर्युपासते । श्रद्दधानाः मत्-परमाः भक्ताः ते अतीव मे प्रियाः ॥ १२-२०॥