Bhagavad Gītā · Chapter 13 of 18

क्षेत्र-क्षेत्रज्ञविभागयोग

Yoga through Distinguishing the Field and the Knower of the Field

अर्जुन उवाच इदम् शरीरम् कौन्तेय क्षेत्रम् इति अभिधीयते । एतत् यः वेत्ति तम् प्राहुः क्षेत्रज्ञः इति तत्-विदः ॥ १३-१॥

क्षेत्रज्ञम् च अपि माम् विद्धि सर्व-क्षेत्रेषु भारत । क्षेत्र-क्षेत्रज्ञयोः ज्ञानम् यत् तत् ज्ञानम् मतम् मम ॥ १३-२॥

तत् क्षेत्रम् यत् च यादृक् च यत् विकारि यतः च यत् । सः च यः यत् प्रभावः च तत् समासेन मे श‍ृणु ॥ १३-३॥

ऋषिभिः बहुधा गीतम् छन्दोभिः विविधैः पृथक् । ब्रह्म-सूत्र-पदैः च एव हेतुमद्भिः विनिश्चितैः ॥ १३-४॥

महा-भूतानि अहङ्कारः बुद्धिः अव्यक्तम् एव च । इन्द्रियाणि दश--एकम् च पञ्च च इन्द्रिय-गोचराः ॥ १३-५॥

इच्छा द्वेषः सुखम् दुःखम् संघातः चेतना धृतिः । एतत् क्षेत्रम् समासेन सविकारम् उदाहृतम् ॥ १३-६॥

अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिः आर्जवम् । आचार्य-उपासनम् शौचम् स्थैर्यम् आत्म-विनिग्रहः ॥ १३-७॥

इन्द्रिय-अर्थेषु वैराग्यम् अनहंकारः एव च । जन्म-मृत्यु-जरा-व्याधि-दुःख-दोष-अनुदर्शनम् ॥ १३-८॥

असक्तिः अनभिष्वङ्गः पुत्र-दार-गृह-आदिषु । नित्यम् च सम-चित्तत्वम् इष्ट अनिष्ट-उपपत्तिषु ॥ १३-९॥

मयि च अनन्य-योगेन भक्तिः अव्यभिचारिणी । विविक्त-देश-सेवित्वम् अरतिः जन-संसदि ॥ १३-१०॥

अध्यात्म-ज्ञान-नित्यत्वम् तत्त्व-ज्ञान-अर्थ-दर्शनम् । एतत् ज्ञानम् इति प्रोक्तम् अज्ञानम् यत् अतः अन्यथा ॥ १३-११॥

ज्ञेयम् यत् तत् प्रवक्ष्यामि यत् ज्ञात्वा अमृतम् अश्नुते । अनादिमत् परम् ब्रह्म न सत् तत् न असत् उच्यते ॥ १३-१२॥

सर्वतः पाणि-पादम् तत् सर्वतः अक्षि-शिरः-मुखम् । सर्वतः श्रुतिमत् लोके सर्वम् आवृत्य तिष्ठति ॥ १३-१३॥

सर्व-इन्द्रिय-गुण-आभासम् सर्व-इन्द्रिय-विवर्जितम् । असक्तम् सर्व-भृत् च एव निर्गुणम् गुण-भोक्तृ च ॥ १३-१४॥

बहिः-अन्तः च भूतानाम् अचरम् चरम् एव च । सूक्ष्मत्वात् तत् अविज्ञेयम् दूरस्थम् च अन्तिके च तत् ॥ १३-१५॥

अविभक्तम् च भूतेषु विभक्तम् इव च स्थितम् । भूत-भर्तृ च तत् ज्ञेयम् ग्रसिष्णु प्रभविष्णु च ॥ १३-१६॥

ज्योतिषाम् अपि तत् ज्योतिः तमसः परम् उच्यते । ज्ञानम् ज्ञेयम् ज्ञानगम्यम् हृदि सर्वस्य धिष्ठितम् ॥ १३-१७॥

इति क्षेत्रम् तथा ज्ञानम् ज्ञेयम् च उक्तम् समासतः । मत्-भक्तः एतत् विज्ञाय मत्-भावाय उपपद्यते ॥ १३-१८॥

प्रकृतिम् पुरुषम् च एव विद्धि अनादी उभाउ अपि । विकारान् च गुणान् च एव विद्धि प्रकृति-सम्भवान् ॥ १३-१९॥

कार्य-कारण-कर्तृत्वे हेतुः प्रकृतिः उच्यते । पुरुषः सुख-दुःखानाम् भोक्तृत्वे हेतुः उच्यते ॥ १३-२०॥

पुरुषः प्रकृतिस्थः हि भुङ्क्ते प्रकृतिजान् गुणान् । कारणम् गुण-सङ्गः अस्य सत् असत् योनि-जन्मसु ॥ १३-२१॥

उपद्रष्टा अनुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मा इति च अपि उक्तः देहे अस्मिन् पुरुषः परः ॥ १३-२२॥

यः एवम् वेत्ति पुरुषम् प्रकृतिम् च गुणैः सह । सर्वथा वर्तमानः अपि न सः भूयः अभिजायते ॥ १३-२३॥

ध्यानेन आत्मनि पश्यन्ति केचित् आत्मानम् आत्मना । अन्ये साङ्ख्येन योगेन कर्म-योगेन च अपरे ॥ १३-२४॥

अन्ये तु एवम् अजानन्तः श्रुत्वा अन्येभ्यः उपासते । ते अपि च अतितरन्ति एव मृत्युम् श्रुति-परायणाः ॥ १३-२५॥

यावत् सञ्जायते किञ्चित् सत्त्वम् स्थावर-जङ्गमम् । क्षेत्र-क्षेत्रज्ञ-संयोगात् तत् विद्धि भरतर्षभ ॥ १३-२६॥

समम् सर्वेषु भूतेषु तिष्ठन्तम् परमेश्वरम् । विनश्यत्सु अविनश्यन्तम् यः पश्यति सः पश्यति ॥ १३-२७॥

समं पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् । न हिनस्ति आत्मना आत्मानम् ततः याति पराम् गतिम् ॥ १३-२८॥

प्रकृत्या एव च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथा आत्मानम् अकर्तारम् सः पश्यति ॥ १३-२९॥

यदा भूत-पृथक्-भावम् एकस्थम् अनुपश्यति । ततः एव च विस्तारम् ब्रह्म सम्पद्यते तदा ॥ १३-३०॥

अनादित्वात् निर्गुणत्वात् परमात्मा अयम् अव्ययः । शरीरस्थः अपि कौन्तेय न करोति न लिप्यते ॥ १३-३१॥

यथा सर्वगतम् सौक्ष्म्यात् आकाशम् न उपलिप्यते । सर्वत्र-अवस्थितः देहे तथा आत्मा न उपलिप्यते ॥ १३-३२॥

यथा प्रकाशयति एकः कृत्स्नम् लोकम् इमम् रविः । क्षेत्रम् क्षेत्री तथा कृत्स्नम् प्रकाशयति भारत ॥ १३-३३॥

क्षेत्र-क्षेत्रज्ञयोः एवम् अन्तरम् ज्ञान-चक्षुषा । भूत-प्रकृति-मोक्षम् च ये विदुः यान्ति ते परम् ॥ १३-३४॥

Bhagavad Gita Chapter 13: Yoga through Distinguishing the Field and the Knower of the Field — Sanskrit (Devanagari) · ekadasi.day