Bhagavad Gītā · Chapter 14 of 18
गुणत्रयविभागयोग
Yoga through Understanding the Three Modes of Material Nature
परम् भूयः प्रवक्ष्यामि ज्ञानानाम् ज्ञानम् उत्तमम् । यत् ज्ञात्वा मुनयः सर्वे पराम् सिद्धिम् इतः गताः ॥ १४-१॥
इदम् ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः । सर्गे अपि न उपजायन्ते प्रलये न व्यथन्ति च ॥ १४-२॥
मम योनिः महत् ब्रह्म तस्मिन् गर्भम् दधामि अहम् । सम्भवः सर्व-भूतानाम् ततः भवति भारत ॥ १४-३॥
सर्व-योनिषु कौन्तेय मूर्तयः सम्भवन्ति याः । तासाम् ब्रह्म महत् योनिः अहम् बीज-प्रदः पिता ॥ १४-४॥
सत्त्वम् रजः तमः इति गुणाः प्रकृति-सम्भवाः । निबध्नन्ति महा-बाहो देहे देहिनम् अव्ययम् ॥ १४-५॥
तत्र सत्त्वम् निर्मलत्वात् प्रकाशकम् अनामयम् । सुख-सङ्गेन बध्नाति ज्ञान-सङ्गेन च अनघ ॥ १४-६॥
रजः राग-आत्मकम् विद्धि तृष्णा-सङ्ग-समुद्भवम् । तत् निबध्नाति कौन्तेय कर्म-सङ्गेन देहिनम् ॥ १४-७॥
तमः तु अज्ञानजम् विद्धि मोहनम् सर्व-देहिनाम् । प्रमाद-आलस्य-निद्राभिः तत् निबध्नाति भारत ॥ १४-८॥
सत्त्वम् सुखे सञ्जयति रजः कर्मणि भारत । ज्ञानम् आवृत्य तु तमः प्रमादे सञ्जयति उत ॥ १४-९॥
रजः तमः च अभिभूय सत्त्वम् भवति भारत । रजः सत्त्वम् तमः च एव तमः सत्त्वम् रजः तथा ॥ १४-१०॥
सर्व-द्वारेषु देहे अस्मिन् प्रकाशः उपजायते । ज्ञानम् यदा तदा विद्यात् विवृद्धम् सत्त्वम् इति उत ॥ १४-११॥
लोभः प्रवृत्तिः आरम्भः कर्मणाम् अशमः स्पृहा । रजसि एतानि जायन्ते विवृद्धे भरतर्षभ ॥ १४-१२॥
अप्रकाशः अप्रवृत्तिः च प्रमादः मोहः एव च । तमसि एतानि जायन्ते विवृद्धे कुरु-नन्दन ॥ १४-१३॥
यदा सत्त्वे प्रवृद्धे तु प्रलयम् याति देह-भृत् । तदा उत्तम-विदाम् लोकान् अमलान् प्रतिपद्यते ॥ १४-१४॥
रजसि प्रलयम् गत्वा कर्म-सङ्गिषु जायते । तथा प्रलीनः तमसि मूढ-योनिषु जायते ॥ १४-१५॥
कर्मणः सुकृतस्य आहुः सात्त्विकम् निर्मलम् फलम् । रजसः तु फलम् दुःखम् अज्ञानम् तमसः फलम् ॥ १४-१६॥
सत्त्वात् सञ्जायते ज्ञानम् रजसः लोभः एव च । प्रमाद-मोहौ तमसः भवतः अज्ञानम् एव च ॥ १४-१७॥
ऊर्ध्वम् गच्छन्ति सत्त्वस्थाः मध्ये तिष्ठन्ति राजसाः । जघन्य-गुण-वृत्तिस्थाः अधः गच्छन्ति तामसाः ॥ १४-१८॥
न अन्यम् गुणेभ्यः कर्तारम् यदा द्रष्टा अनुपश्यति । गुणेभ्यः च परम् वेत्ति मत्-भावम् सः अधिगच्छति ॥ १४-१९॥
गुणान् एतान् अतीत्य त्रीन् देही देह-समुद्भवान् । जन्म-मृत्यु-जरा-दुःखैः विमुक्तः अमृतम् अश्नुते ॥ १४-२०॥
कैः लिङ्गैः त्रीन् गुणान् एतान् अतीतः भवति प्रभो । किम् आचारः कथम् च एतान् त्रीन् गुणान् अतिवर्तते ॥ १४-२१॥
प्रकाशम् च प्रवृत्तिम् च मोहम् एव च पाण्डव । न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ १४-२२॥
उदासीनवत् आसीनः गुणैः यः न विचाल्यते । गुणाः वर्तन्ते इति एवम् यः अवतिष्ठति न इङ्गते ॥ १४-२३॥
सम-दुःख-सुखः स्वस्थः सम-लोष्ट-अश्म-काञ्चनः । तुल्य-प्रिय-अप्रियः धीरः तुल्य-निन्दा-आत्म-संस्तुतिः ॥ १४-२४॥
मान-अपमानयोः तुल्यः तुल्यः मित्र-अरि-पक्षयोः । सर्व-आरम्भ-परित्यागी गुणातीतः सः उच्यते ॥ १४-२५॥
माम् च यः अव्यभिचारेण भक्ति-योगेन सेवते । सः गुणान् समतीत्य एतान् ब्रह्म-भूयाय कल्पते ॥ १४-२६॥
ब्रह्मणः हि प्रतिष्ठा अहम् अमृतस्य अव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्य एकान्तिकस्य च ॥ १४-२७॥