Bhagavad Gītā · Chapter 15 of 18

पुरुषोत्तमयोग

The Yoga of the Supreme Divine Personality

ऊर्ध्व-मूलम् अधः-शाखम् अश्वत्थम् प्राहुः अव्ययम् । छन्दांसि यस्य पर्णानि यः तम् वेद सः वेदवित् ॥ १५-१॥

अधः च ऊर्ध्वम् प्रसृताः तस्य शाखाः गुण-प्रवृद्धाः विषय-प्रवालाः । अधः च मूलानि अनुसन्ततानि कर्म-अनुबन्धीनि मनुष्य-लोके ॥ १५-२॥

न रूपम् अस्य इह तथा उपलभ्यते न अन्तः न च आदिः न च सम्प्रतिष्ठा । अश्वत्थम् एनम् सुविरूढ-मूलम् असङ्ग-शस्त्रेण दृढेन छित्त्वा ॥ १५-३॥

ततः पदम् तत् परिमार्गितव्यं यस्मिन् गताः न निवर्तन्ति भूयः । तम् एव च आद्यम् पुरुषम् प्रपद्ये । यतः प्रवृत्तिः प्रसृता पुराणी ॥ १५-४॥

निर्मान-मोहाः जितसङ्गदोषाः अध्यात्म-नित्याः विनिवृत्त-कामाः । द्वन्द्वैः विमुक्ताः सुख-दुःख-संज्ञैः गच्छन्ति अमूढाः पदम् अव्ययं तत् ॥ १५-५॥

न तत् भासयते सूर्यः न शशाङ्कः न पावकः । यत् गत्वा न निवर्तन्ते तत् धाम परमम् मम ॥ १५-६॥

मम एव अंशः जीव-लोके जीव-भूतः सनातनः । मनः-षष्ठानि-इन्द्रियाणि प्रकृति-स्थानि कर्षति ॥ १५-७॥

शरीरम् यत् अवाप्नोति यत् च अपि उत्क्रामति ईश्वरः । गृहीत्वा एतानि संयाति वायुः गन्धान् इव आशयात् ॥ १५-८॥

श्रोत्रम् चक्षुः स्पर्शनम् च रसनम् घ्राणम् एव च । अधिष्ठाय मनः च अयम् विषयान् उपसेवते ॥ १५-९॥

उत्क्रामन्तम् स्थितम् वा अपि भुञ्जानम् वा गुण-अन्वितम् । विमूढाः न अनुपश्यन्ति पश्यन्ति ज्ञान-चक्षुषः ॥ १५-१०॥

यतन्तः योगिनः च एनम् पश्यन्ति आत्मनि अवस्थितम् । यतन्तः अपि अकृत-आत्मानः न एनम् पश्यन्ति अचेतसः ॥ १५-११॥

यत् आदित्य-गतं तेजः जगत् भासयते अखिलम् । यत् चन्द्रमसि यत् च अग्नौ तत् तेजः विद्धि मामकम् ॥ १५-१२॥

गाम् आविश्य च भूतानि धारयामि अहम् ओजसा । पुष्णामि च ओषधीः सर्वाः सोमः भूत्वा रसात्मकः ॥ १५-१३॥

अहम् वैश्वानरः भूत्वा प्राणिनाम् देहम् आश्रितः । प्राण-अपान-सम-आयुक्तः पचामि अन्नम् चतुर्विधम् ॥ १५-१४॥

सर्वस्य च अहम् हृदि सन्निविष्टः मत्तः स्मृतिः ज्ञानम् अपोहनम् च । वेदैः च सर्वैः अहम् एव वेद्यः वेदान्त-कृत् वेद-वित् एव च अहम् ॥ १५-१५॥

द्वौ इमौ पुरुषौ लोके क्षरः च अक्षरः एव च । क्षरः सर्वाणि भूतानि कूटस्थः अक्षरः उच्यते ॥ १५-१६॥

उत्तमः पुरुषः तु अन्यः परम्-आत्मा इति उदाहृतः । यः लोक-त्रयम् आविश्य बिभर्ति अव्ययः ईश्वरः ॥ १५-१७॥

यस्मात् क्षरम् अतीतः अहम् अक्षरात् अपि च उत्तमः । अतः अस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १५-१८॥

यः माम् एवम् असम्मूढः जानाति पुरुषोत्तमम् । सः सर्व-वित् भजति माम् सर्व-भावेन भारत ॥ १५-१९॥

इति गुह्यतमम् शास्त्रम् इदम् उक्तम् मया अनघ । एतत् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यः च भारत ॥ १५-२०॥

Bhagavad Gita Chapter 15: The Yoga of the Supreme Divine Personality — Sanskrit (Devanagari) · ekadasi.day