Bhagavad Gītā · Chapter 16 of 18

दैवासुरसम्पद्विभागयोग

Yoga through Discerning the Divine and Demoniac Natures

अभयम् सत्त्व-संशुद्धिः ज्ञान-योग-व्यवस्थितिः । दानम् दमः च यज्ञः च स्वाध्यायः तपः आर्जवम् ॥ १६-१॥

अहिंसा सत्यम् अक्रोधः त्यागः शान्तिः अपैशुनम् । दया भूतेषु अलोलुप्त्वम् मार्दवम् ह्रीः अचापलम् ॥ १६-२॥

तेजः क्षमा धृतिः शौचम् अद्रोहः न अति-मानिता । भवन्ति सम्पदम् दैवीम् अभिजातस्य भारत ॥ १६-३॥

दम्भः दर्पः अभिमानः च क्रोधः पारुष्यम् एव च । अज्ञानम् च अभिजातस्य पार्थ सम्पदम् आसुरीम् ॥ १६-४॥

दैवी सम्पत् विमोक्षाय निबन्धाय आसुरी मता । मा शुचः सम्पदम् दैवीम् अभिजातः असि पाण्डव ॥ १६-५॥

द्वौ भूत-सर्गौ लोके अस्मिन् दैवः आसुरः एव च । दैवः विस्तरशः प्रोक्तः आसुरम् पार्थ मे श‍ृणु ॥ १६-६॥

प्रवृत्तिम् च निवृत्तिम् च जनाः न विदुः आसुराः । न शौचम् न अपि च आचारः न सत्यम् तेषु विद्यते ॥ १६-७॥

असत्यम् अप्रतिष्ठम् ते जगत् आहुः अनीश्वरम् । अपरस्पर-सम्भूतं किम् अन्यत् काम-हैतुकम् ॥ १६-८॥

एताम् दृष्टिम् अवष्टभ्य नष्ट-आत्मानः अल्प-बुद्धयः । प्रभवन्ति उग्र-कर्माणः क्षयाय जगतः अहिताः ॥ १६-९॥

कामम् आश्रित्य दुष्पूरम् दम्भ-मान-मद-अन्विताः । मोहात् गृहीत्वा असत् ग्राहान् प्रवर्तन्ते अशुचि-व्रताः ॥ १६-१०॥

चिन्ताम् अपरिमेयाम् च प्रलयान्ताम् उपाश्रिताः । काम-उपभोग-परमाः एतावत् इति निश्चिताः ॥ १६-११॥

आशा-पाश-शतैः बद्धाः काम-क्रोध-परायणाः । ईहन्ते काम-भोगार्थम् अन्यायेन अर्थ-सञ्चयान् ॥ १६-१२॥

इदम् अद्य मया लब्धम् इमम् प्राप्स्ये मनोरथम् । इदम् अस्ति इदम् अपि मे भविष्यति पुनः धनम् ॥ १६-१३॥

असौ मया हतः शत्रुः हनिष्ये च अपरान् अपि । ईश्वरः अहम् अहं भोगी सिद्धः अहम् बलवान् सुखी ॥ १६-१४॥

आढ्यः अभिजनवान् अस्मि कः अन्यः अस्ति सदृशः मया । यक्ष्ये दास्यामि मोदिष्ये इति अज्ञान-विमोहिताः ॥ १६-१५॥

अनेक-चित्त-विभ्रान्ताः मोह-जाल-समावृताः । प्रसक्ताः काम-भोगेषु पतन्ति नरके अशुचौ ॥ १६-१६॥

आत्म-सम्भाविताः स्तब्धाः धन-मान-मद-अन्विताः । यजन्ते नाम-यज्ञैः ते दम्भेन अविधि-पूर्वकम् ॥ १६-१७॥

अहंकारम् बलम् दर्पम् कामम् क्रोधम् च संश्रिताः । माम् आत्म-पर-देहेषु प्रद्विषन्तः अभ्यसूयकाः ॥ १६-१८॥

तान् अहम् द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपामि अजस्रम् अशुभान् आसुरीषु एव योनिषु ॥ १६-१९॥

आसुरीम् योनिम् आपन्नाः मूढाः जन्मनि जन्मनि । माम् अप्राप्य एव कौन्तेय ततः यान्ति अधमाम् गतिम् ॥ १६-२०॥

त्रिविधम् नरकस्य इदम् द्वारम् नाशनम् आत्मनः । कामः क्रोधः तथा लोभः तस्मात् एतत् त्रयम् त्यजेत् ॥ १६-२१॥

एतैः विमुक्तः कौन्तेय तमो-द्वारैः त्रिभिः नरः । आचरति आत्मनः श्रेयः ततः याति पराम् गतिम् ॥ १६-२२॥

यः शास्त्र-विधिम् उत्सृज्य वर्तते काम-कारतः । न सः सिद्धिम् अवाप्नोति न सुखम् न पराम् गतिम् ॥ १६-२३॥

तस्मात् शास्त्रम् प्रमाणम् ते कार्य-अकार्य-व्यवस्थितौ । ज्ञात्वा शास्त्र-विधान-उक्तम् कर्म कर्तुम् इह अर्हसि ॥ १६-२४॥

Bhagavad Gita Chapter 16: Yoga through Discerning the Divine and Demoniac Natures — Sanskrit (Devanagari) · ekadasi.day