Bhagavad Gītā · Chapter 4 of 18

ज्ञानकर्मसंन्यासयोग

Path of Knowledge and the Disciplines of Action

इमम् विवस्वते योगम् प्रोक्तवान् अहम् अव्ययम् । विवस्वान् मनवे प्राह मनुः इक्ष्वाकवे अब्रवीत् ॥ ४-१॥

एवम् परम्परा-प्राप्तम् इमम् राजर्षयः विदुः । सः कालेन इह महता योगः नष्टः परन्तप ॥ ४-२॥

सः एव अयम् मया ते अद्य योगः प्रोक्तः पुरातनः । भक्तः असि मे सखा च इति रहस्यम् हि एतत् उत्तमम् ॥ ४-३॥

अर्जुन उवाच अपरम् भवतः जन्म परम् जन्म विवस्वतः । कथम् एतत् विजानीयाम् त्वम् आदौ प्रोक्तवान् इति ॥ ४-४॥

बहूनि मे व्यतीतानि जन्मानि तव च अर्जुन । तानि अहम् वेद सर्वाणि न त्वम् वेत्थ परन्तप ॥ ४-५॥

अजः अपि सन् अव्यय-आत्मा भूतानाम् ईश्वरः अपि सन् । प्रकृतिम् स्वाम् अधिष्ठाय सम्भवामि आत्म-मायया ॥ ४-६॥

यदा यदा हि धर्मस्य ग्लानिः भवति भारत । अभ्युत्थानम् अधर्मस्य तदा आत्मानम् सृजामि अहम् ॥ ४-७॥

परित्राणाय साधूनाम् विनाशाय च दुष्कृताम् । धर्म-संस्थापन-अर्थाय सम्भवामि युगे युगे ॥ ४-८॥

जन्म कर्म च मे दिव्यम् एवम् यः वेत्ति तत्त्वतः । त्यक्त्वा देहम् पुनः जन्म न एति माम् एति सः अर्जुन ॥ ४-९॥

वीत-राग-भय-क्रोधाः मन्मयाः माम् उपाश्रिताः । बहवः ज्ञान-तपसा पूताः मद्भावम् आगताः ॥ ४-१०॥

ये यथा माम् प्रपद्यन्ते तान् तथा एव भजाम्यि अहम् । मम वर्त्म अनुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ४-११॥

काङ्क्षन्तः कर्मणाम् सिद्धिम् यजन्ते इह देवताः । क्षिप्रम् हि मानुषे लोके सिद्धिः भवति कर्मजा ॥ ४-१२॥

चातुर्वर्ण्यम् मया सृष्टम् गुण-कर्म-विभागशः । तस्य कर्तारम् अपि माम् विद्धि अकर्तारम् अव्ययम् ॥ ४-१३॥

न माम् कर्माणि लिम्पन्ति न मे कर्म-फले स्पृहा । इति माम् यः अभिजानाति कर्मभिः न स बध्यते ॥ ४-१४॥

एवम् ज्ञात्वा कृतम् कर्म पूर्वैः अपि मुमुक्षुभिः । कुरु कर्म एव तस्मात् त्वम् पूर्वैः पूर्वतरम् कृतम् ॥ ४-१५॥

किम् कर्म किम् अकर्म इति कवयः अपि अत्र मोहिताः । तत् ते कर्म प्रवक्ष्यामि यत् ज्ञात्वा मोक्ष्यसे अशुभात् ॥ ४-१६॥

कर्मणः हि अपि बोद्धव्यम् बोद्धव्यम् च विकर्मणः । अकर्मणः च बोद्धव्यम् गहना कर्मणः गतिः ॥ ४-१७॥

कर्मणि अकर्म यः पश्येत् अकर्मणि च कर्म यः । सः बुद्धिमान् मनुष्येषु सः युक्तः कृत्स्न-कर्म-कृत् ॥ ४-१८॥

यस्य सर्वे समारम्भाः काम-सङ्कल्प-वर्जिताः । ज्ञान-अग्नि-दग्ध-कर्माणम् तम् आहुः पण्डितम् बुधाः ॥ ४-१९॥

त्यक्त्वा कर्म-फल-आसङ्गम् नित्य-तृप्तः निराश्रयः । कर्मणि अभिप्रवृत्तः अपि न एव किञ्चित् करोति सः ॥ ४-२०॥

निराशीः यत-चित्त-आत्मा त्यक्त-सर्व-परिग्रहः । शारीरम् केवलम् कर्म कुर्वन् न आप्नोति किल्बिषम् ॥ ४-२१॥

यदृच्छा-लाभ-सन्तुष्टः द्वन्द्व-अतीतः विमत्सरः । समः सिद्धौ असिद्धौ च कृत्वा अपि न निबध्यते ॥ ४-२२॥

गत-सङ्गस्य मुक्तस्य ज्ञान-अवस्थित-चेतसः । यज्ञाय आचरतः कर्म समग्रम् प्रविलीयते ॥ ४-२३॥

ब्रह्म-अर्पणं ब्रह्म हविः ब्रह्म-अग्नौ ब्रह्मणा हुतम् । ब्रह्म एव तेन गन्तव्यम् ब्रह्म-कर्म-समाधिना ॥ ४-२४॥

दैवम् एव अपरे यज्ञम् योगिनः पर्युपासते । ब्रह्म-अग्नौ अपरे यज्ञं यज्ञेन एव उपजुह्वति ॥ ४-२५॥

श्रोत्र-आदीनि इन्द्रियाणि अन्ये संयम-अग्निषु जुह्वति । शब्द-आदीन् विषयान् अन्ये इन्द्रिय-अग्निषु जुह्वति ॥ ४-२६॥

सर्वाणि इन्द्रिय-कर्माणि प्राण-कर्माणि च अपरे । आत्म-संयम-योग-अग्नौ जुह्वति ज्ञान-दीपिते ॥ ४-२७॥

द्रव्य-यज्ञाः तपो-यज्ञाः योग-यज्ञाः तथा अपरे । स्वाध्याय-ज्ञान-यज्ञाः च यतयः संशितव्रताः ॥ ४-२८॥

अपाने जुह्वति प्राणम् प्राणे अपानम् तथा अपरे । प्राण-अपान-गती रुद्ध्वा प्राणायाम-परायणाः ॥ ४-२९॥

अपरे नियत-आहाराः प्राणान् प्राणेषु जुह्वति । सर्वे अपि एते यज्ञविदः यज्ञ-क्षपित-कल्मषाः ॥ ४-३०॥

यज्ञ-शिष्ट-अमृत-भुजः यान्ति ब्रह्म सनातनम् । नायम् लोकः अस्ति अयज्ञस्य कुतः अन्यः कुरुसत्तम ॥ ४-३१॥

एवम् बहुविधाः यज्ञाः वितताः ब्रह्मणः मुखे । कर्मजान् विद्धि तान् सर्वान् एवम् ज्ञात्वा विमोक्ष्यसे ॥ ४-३२॥

श्रेयान् द्रव्यमयात् यज्ञात् ज्ञान-यज्ञः परन्तप । सर्वम् कर्म-अखिलम् पार्थ ज्ञाने परिसमाप्यते ॥ ४-३३॥

तत् विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानम् ज्ञानिनः तत्त्व-दर्शिनः ॥ ४-३४॥

यत् ज्ञात्वा न पुनः मोहम् एवम् यास्यसि पाण्डव । येन भूतानि अशेषाणि द्रक्ष्यसि आत्मनि अथो मयि ॥ ४-३५॥

अपि चेत् असि पापेभ्यः सर्वेभ्यः पाप-कृत्तमः । सर्वम् ज्ञान-प्लवेन एव वृजिनम् सन्तरिष्यसि ॥ ४-३६॥

यथा एधांसि समिद्धः अग्निः भस्मसात् कुरुते अर्जुन । ज्ञान-अग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा ॥ ४-३७॥

न हि ज्ञानेन सदृशम् पवित्रम् इह विद्यते । तत् स्वयं योग-संसिद्धः कालेन आत्मनि विन्दति ॥ ४-३८॥

श्रद्धावान् लभते ज्ञानम् तत्परः संयत-इन्द्रियः । ज्ञानम् लब्ध्वा पराम् शान्तिम् अचिरेणाधिगच्छति ॥ ४-३९॥

अज्ञः च अश्रद्दधानः च संशय-आत्मा विनश्यति । न अयं लोकः अस्ति न परः न सुखं संशयात्मनः ॥ ४-४०॥

योग-संन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४-४१॥

तस्मात् अज्ञान-सम्भूतम् हृत्स्थम् ज्ञान-असिना-आत्मनः । छित्त्वा एनम् संशयम् योगम् आतिष्ठ उत्तिष्ठ भारत ॥ ४-४२॥

Bhagavad Gita Chapter 4: Path of Knowledge and the Disciplines of Action — Sanskrit (Devanagari) · ekadasi.day