Bhagavad Gītā · Chapter 5 of 18

कर्मसंन्यासयोग

Path of Renunciation

अर्जुन उवाच संन्यासम् कर्मणाम् कृष्ण पुनः योगम् च शंससि । यत् श्रेयः एतयोः एकम् तत् मे ब्रूहि सुनिश्चितम् ॥ ५-१॥

संन्यासः कर्म-योगः च निःश्रेयसकरौ उभौ । तयोः तु कर्म-संन्यासात् कर्म-योगः विशिष्यते ॥ ५-२॥

ज्ञेयः सः नित्य-संन्यासी यः न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वः हि महाबाहो सुखम् बन्धात् प्रमुच्यते ॥ ५-३॥

साङ्ख्य-योगौ पृथक् बालाः प्रवदन्ति न पण्डिताः । एकम् अपि आस्थितः सम्यक् उभयोः विन्दते फलम् ॥ ५-४॥

यत् साङ्ख्यैः प्राप्यते स्थानम् तत् योगैः अपि गम्यते । एकम् साङ्ख्यम् च योगम् च यः पश्यति स पश्यति ॥ ५-५॥

संन्यासः तु महाबाहो दुःखम् आप्तुम् अयोगतः । योग-युक्तः मुनिः ब्रह्म नचिरेण अधिगच्छति ॥ ५-६॥

योग-युक्तः विशुद्ध-आत्मा विजित-आत्मा जित-इन्द्रियः । सर्व-भूत-आत्म-भूत-आत्मा कुर्वन् अपि न लिप्यते ॥ ५-७॥

न एव किञ्चित् करोमि इति युक्तः मन्येत तत्त्ववित् । पश्यन् श‍ृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपञ् श्वसन् ॥ ५-८॥

प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन् अपि । इन्द्रियाणि इन्द्रिय-अर्थेषु वर्तन्ते इति धारयन् ॥ ५-९॥

ब्रह्मणि आधाय कर्माणि सङ्गम् त्यक्त्वा करोति यः । लिप्यते न सः पापेन पद्म-पत्रम् इव अम्भसा ॥ ५-१०॥

कायेन मनसा बुद्ध्या केवलैः इन्द्रियैः अपि । योगिनः कर्म कुर्वन्ति सङ्गम् त्यक्त्वा आत्म-शुद्धये ॥ ५-११॥

युक्तः कर्म-फलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तः निबध्यते ॥ ५-१२॥

सर्व-कर्माणि मनसा संन्यस्य आस्ते सुखम् वशी । नव-द्वारे पुरे देही न एव कुर्वन् न कारयन् ॥ ५-१३॥

न कर्तृत्वम् न कर्माणि लोकस्य सृजति प्रभुः । न कर्म-फल-संयोगम् स्वभावः तु प्रवर्तते ॥ ५-१४॥

न आदत्ते कस्यचित् पापं न च एव सुकृतं विभुः । अज्ञानेन आवृतम् ज्ञानम् तेन मुह्यन्ति जन्तवः ॥ ५-१५॥

ज्ञानेन तु तत् अज्ञानम् येषाम् नाशितम् आत्मनः । तेषाम् आदित्यवत् ज्ञानम् प्रकाशयति तत् परम् ॥ ५-१६॥

तत् बुद्धयः तत् आत्मानः तत् निष्ठाः तत् परायणाः । गच्छन्ति अपुनरावृत्तिम् ज्ञान-निर्धूत-कल्मषाः ॥ ५-१७॥

विद्या-विनय-सम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि च एव श्वपाके च पण्डिताः सम-दर्शिनः ॥ ५-१८॥

इह एव तैः जितः सर्गः येषाम् साम्ये स्थितम् मनः । निर्दोषम् हि समम् ब्रह्म तस्मात् ब्रह्मणि ते स्थिताः ॥ ५-१९॥

न प्रहृष्येत् प्रियम् प्राप्य न उद्विजेत् प्राप्य च अप्रियम् । स्थिर-बुद्धिः असम्मूढः ब्रह्मवित् ब्रह्मणि स्थितः ॥ ५-२०॥

बाह्य-स्पर्शेषु असक्त-आत्मा विन्दति आत्मनि यत् सुखम् । सः ब्रह्म-योग-युक्तात्मा सुखम् अक्षयम् अश्नुते ॥ ५-२१॥

ये हि संस्पर्शजाः भोगाः दुःख-योनयः एव ते । आदि अन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ ५-२२॥

शक्नोति इह एव यः सोढुम् प्राक् शरीर-विमोक्षणात् । काम-क्रोध-उद्भवम् वेगम् सः युक्तः सः सुखी नरः ॥ ५-२३॥

यः अन्तः-सुखः अन्तर-आरामः तथा अन्तर्-ज्योतिः एव यः । सः योगी ब्रह्म-निर्वाणम् ब्रह्म-भूतः अधिगच्छति ॥ ५-२४॥

लभन्ते ब्रह्म-निर्वाणम् ऋषयः क्षीण-कल्मषाः । छिन्न-द्वैधाः यत-आत्मानः सर्व-भूतहिते रताः ॥ ५-२५॥

काम-क्रोध-वियुक्तानाम् यतीनाम् यत-चेतसाम् । अभितः ब्रह्म-निर्वाणं वर्तते विदित-आत्मनाम् ॥ ५-२६॥

स्पर्शान् कृत्वा बहिः बाह्यान् चक्षुः च एव अन्तरे भ्रुवोः । प्राण-अपानौ समौ कृत्वा नास-अभ्यन्तर-चारिणौ ॥ ५-२७॥

यत-इन्द्रिय-मनः बुद्धिः मुनिः मोक्ष-परायणः । विगत-इच्छा-भय-क्रोधः यः सदा मुक्तः एव सः ॥ ५-२८॥

भोक्तारम् यज्ञ-तपसाम् सर्व-लोक-महेश्वरम् । सुहृदम् सर्व-भूतानाम् ज्ञात्वा मां शान्तिम् ऋच्छति ॥ ५-२९॥

Bhagavad Gita Chapter 5: Path of Renunciation — Sanskrit (Devanagari) · ekadasi.day