Bhagavad Gītā · Chapter 3 of 18

कर्मयोग

Path of Selfless Service

अर्जुन उवाच ज्यायसी चेत् कर्मणः ते मता बुद्धिः जनार्दन । तत् किम् कर्मणि घोरे माम् नियोजयसि केशव ॥ ३-१॥

व्यामिश्रेण इव वाक्येन बुद्धिं मोहयसि इव मे । तत् एकं वद निश्चित्य येन श्रेयः अहम् आप्नुयाम् ॥ ३-२॥

लोके अस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मया अनघ । ज्ञान-योगेन साङ्ख्यानाम् कर्म-योगेन योगिनाम् ॥ ३-३॥

न कर्मणाम् अनारम्भात् नैष्कर्म्यं पुरुषः अश्नुते । न च संन्यसनात् एव सिद्धिम् समधिगच्छति ॥ ३-४॥

न हि कश्चित् क्षणम् अपि जातु तिष्ठति अकर्मकृत् । कार्यते हि अवशः कर्म सर्वः प्रकृतिजैः गुणैः ॥ ३-५॥

कर्म-इन्द्रियाणि संयम्य यः आस्ते मनसा स्मरन् । इन्द्रियार्थान् विमूढात्मा मिथ्याचारः सः उच्यते ॥ ३-६॥

यः तु इन्द्रियाणि मनसा नियम्य आरभते अर्जुन । कर्म-इन्द्रियैः कर्म-योगम् असक्तः सः विशिष्यते ॥ ३-७॥

नियतम् कुरु कर्म त्वं कर्म ज्यायः हि अकर्मणः । शरीर-यात्रा अपि च ते न प्रसिद्ध्येत् अकर्मणः ॥ ३-८॥

यज्ञार्थात् कर्मणः अन्यत्र लोकः अयम् कर्म-बन्धनः । तत् अर्थम् कर्म कौन्तेय मुक्त-सङ्गः समाचर ॥ ३-९॥

सह-यज्ञाः प्रजाः सृष्ट्वा पुरा उवाच प्रजापतिः । अनेन प्रसविष्यध्वम् एषः वः अस्तु इष्ट-कामधुक् ॥ ३-१०॥

देवान् भावयत अनेन ते देवाः भावयन्तु वः । परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ ॥ ३-११॥

इष्टान् भोगान् हि वः देवाः दास्यन्ते यज्ञ-भाविताः । तैः दत्तान् अप्रदाय एभ्यः यः भुङ्क्ते स्तेनः एव सः ॥ ३-१२॥

यज्ञ-शिष्ट आशिनः सन्तः मुच्यन्ते सर्व-किल्बिषैः । भुञ्जते ते तु अघं पापाः ये पचन्ति आत्म-कारणात् ॥ ३-१३॥

अन्नात् भवन्ति भूतानि पर्जन्यात् अन्न-सम्भवः । यज्ञात् भवति पर्जन्यः यज्ञः कर्म-समुद्भवः ॥ ३-१४॥

कर्म ब्रह्म-उद्भवं विद्धि ब्रह्म अक्षर-समुद्भवम् । तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ ३-१५॥

एवं प्रवर्तितम् चक्रम् न अनुवर्तयति इह यः । अघायुः इन्द्रिय-आरामः मोघम् पार्थ सः जीवति ॥ ३-१६॥

यः तु आत्म-रतिः एव स्यात् आत्म-तृप्तः च मानवः । आत्मनि एव च सन्तुष्टः तस्य कार्यम् न विद्यते ॥ ३-१७॥

न एव तस्य कृतेन अर्थः न अकृतेन इह कश्चन । न च अस्य सर्व-भूतेषु कश्चित् अर्थ-व्यपाश्रयः ॥ ३-१८॥

तस्मात् असक्तः सततम् कार्यम् कर्म समाचर । असक्तः हि आचरन् कर्म परम् आप्नोति पूरुषः ॥ ३-१९॥

कर्मणा एव हि संसिद्धिम् आस्थिताः जनक-आदयः । लोक-संग्रहम् एव अपि सम्पश्यन् कर्तुम् अर्हसि ॥ ३-२०॥

यत् यत् आचरति श्रेष्ठः तत् तत् एव इतरः जनः । सः यत् प्रमाणम् कुरुते लोकः तत् अनुवर्तते ॥ ३-२१॥

न मे पार्थ अस्ति कर्तव्यम् त्रिषु लोकेषु किञ्चन । न अनवाप्तम् अवाप्तव्यम् वर्ते एव च कर्मणि ॥ ३-२२॥

यदि हि अहं न वर्तेयम् जातु कर्मणि अतन्द्रितः । मम वर्त्म अनुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ३-२३॥

उत्सीदेयुः इमे लोकाः न कुर्याम् कर्म चेत् अहम् । सङ्करस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ॥ ३-२४॥

सक्ताः कर्मणि अविद्वांसः यथा कुर्वन्ति भारत । कुर्यात् विद्वान् तथा असक्तः चिकीर्षुः लोक-संग्रहम् ॥ ३-२५॥

न बुद्धि-भेदम् जनयेत् अज्ञानाम् कर्म-सङ्गिनाम् । जोषयेत् सर्व-कर्माणि विद्वान् युक्तः समाचरन् ॥ ३-२६॥

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कार-विमूढ-आत्मा कर्ता अहम् इति मन्यते ॥ ३-२७॥

तत्त्ववित् तु महाबाहो गुण-कर्म-विभागयोः । गुणाः गुणेषु वर्तन्ते इति मत्वा न सज्जते ॥ ३-२८॥

प्रकृतेः गुण-सम्मूढाः सज्जन्ते गुण-कर्मसु । तान् अकृत्स्नविदः मन्दान् कृत्स्नवित् न विचालयेत् ॥ ३-२९॥

मयि सर्वाणि कर्माणि संन्यस्य अध्यात्म-चेतसा । निराशीः निर्ममः भूत्वा युध्यस्व विगत-ज्वरः ॥ ३-३०॥

ये मे मतम् इदम् नित्यम् अनुतिष्ठन्ति मानवाः । श्रद्धावन्तः अनसूयन्तः मुच्यन्ते ते अपि कर्मभिः ॥ ३-३१॥

ये तु एतत् अभ्यसूयन्तः न अनुतिष्ठन्ति मे मतम् । सर्व-ज्ञान-विमूढान् तान् विद्धि नष्टान् अचेतसः ॥ ३-३२॥

सदृशम् चेष्टते स्वस्याः प्रकृतेः ज्ञानवान् अपि । प्रकृतिम् यान्ति भूतानि निग्रहः किम् करिष्यति ॥ ३-३३॥

इन्द्रियस्य इन्द्रियस्य-अर्थे राग-द्वेषौ व्यवस्थितौ । तयोः न वशम् आगच्छेत् तौ हि अस्य परिपन्थिनौ ॥ ३-३४॥

श्रेयान् स्वधर्मः विगुणः परधर्मात् स्वनुष्ठितात् । स्वधर्मे निधनम् श्रेयः परधर्मः भय-आवहः ॥ ३-३५॥

अर्जुन उवाच अथ केन प्रयुक्तः अयं पापम् चरति पूरुषः । अनिच्छन् अपि वार्ष्णेय बलात् इव नियोजितः ॥ ३-३६॥

कामः एषः क्रोधः एषः रजः गुण-समुद्भवः । महा-अशनः महा-पाप्मा विद्धि एनम् इह वैरिणम् ॥ ३-३७॥

धूमेन आव्रियते वह्निः यथा आदर्शः मलेन च । यथा उल्बेन आवृतः गर्भः तथा तेन इदम् आवृतम् ॥ ३-३८॥

आवृतम् ज्ञानम् एतेन ज्ञानिनः नित्यवैरिणा । कामरूपेण कौन्तेय दुष्पूरेण अनलेन च ॥ ३-३९॥

इन्द्रियाणि मनः बुद्धिः अस्य अधिष्ठानम् उच्यते । एतैः विमोहयति एषः ज्ञानम् आवृत्य देहिनम् ॥ ३-४०॥

तस्मात् त्वम् इन्द्रियाणि आदौ नियम्य भरतर्षभ । पाप्मानम् प्रजहि हि एनं ज्ञान-विज्ञान-नाशनम् ॥ ३-४१॥

इन्द्रियाणि पराणि आहुः इन्द्रियेभ्यः परम् मनः । मनसः तु परा बुद्धिः यः बुद्धेः परतः तु सः ॥ ३-४२॥

एवम् बुद्धेः परम् बुद्ध्वा संस्तभ्य आत्मानम् आत्मना । जहि शत्रुम् महाबाहो काम-रूपम् दुरासदम् ॥ ३-४३॥

Bhagavad Gita Chapter 3: Path of Selfless Service — Sanskrit (Devanagari) · ekadasi.day