Bhagavad Gītā · Chapter 6 of 18
ध्यानयोग
Path of Meditation
अनाश्रितः कर्म-फलम् कार्यम् कर्म करोति यः । सः संन्यासी च योगी च न निरग्निः न च अक्रियः ॥ ६-१॥
यम् संन्यासम् इति प्राहुः योगम् तम् विद्धि पाण्डव । न हि असंन्यस्त-सङ्कल्पः योगी भवति कश्चन ॥ ६-२॥
आरुरुक्षोः मुनेः योगम् कर्म कारणम् उच्यते । योग-आरूढस्य तस्य एव शमः कारणम् उच्यते ॥ ६-३॥
यदा हि न इन्द्रिय-अर्थेषु न कर्मसु अनुषज्जते । सर्व-सङ्कल्प-संन्यासी योग-आरूढः तदा उच्यते ॥ ६-४॥
उद्धरेत् आत्मना आत्मानम् न आत्मानम् अवसादयेत् । आत्मा एव हि आत्मनः बन्धुः आत्मा एव रिपुः आत्मनः ॥ ६-५॥
बन्धुः आत्मा आत्मनः तस्य येन आत्मा एव आत्मना जितः । अनात्मनः तु शत्रुत्वे वर्तेत आत्मा एव शत्रुवत् ॥ ६-६॥
जित-आत्मनः प्रशान्तस्य परमात्मा समाहितः । शीत-उष्ण-सुख-दुःखेषु तथा मान-अपमानयोः ॥ ६-७॥
ज्ञान-विज्ञान-तृप्त-आत्मा कूटस्थः विजित-इन्द्रियः । युक्तः इति उच्यते योगी सम-लोष्ट-अश्म-काञ्चनः ॥ ६-८॥
सुहृत् मित्र-अरि-उदासीन-मध्यस्थ-द्वेष्य-बन्धुषु । साधुषु अपि च पापेषु सम-बुद्धिः विशिष्यते ॥ ६-९॥
योगी युञ्जीत सततम् आत्मानम् रहसि स्थितः । एकाकी यत-चित्त-आत्मा निराशीः अपरिग्रहः ॥ ६-१०॥
शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः । न अति-उच्छ्रितम् न अति-नीचम् चैल-अजिन-कुश-उत्तरम् ॥ ६-११॥
तत्र एकाग्रम् मनः कृत्वा यत-चित्त-इन्द्रिय-क्रियः । उपविश्य आसने युञ्ज्यात् योगम् आत्म-विशुद्धये ॥ ६-१२॥
समम् काय-शिरः-ग्रीवम् धारयन् अचलम् स्थिरः । सम्प्रेक्ष्य नासिक-अग्रं स्वम् दिशः च अनवलोकयन् ॥ ६-१३॥
प्रशान्त-आत्मा विगत-भीः ब्रह्मचारि-व्रते स्थितः । मनः संयम्य मत्-चित्तः युक्तः आसीत मत्-परः ॥ ६-१४॥
युञ्जन् एवं सदा आत्मानम् योगी नियत-मानसः । शान्तिम् निर्वाण-परमाम् मत्-संस्थाम् अधिगच्छति ॥ ६-१५॥
न अति अश्नतः तु योगः अस्ति न च एकान्तम् अनश्नतः । न च अति-स्वप्न-शीलस्य जाग्रतः न एव च अर्जुन ॥ ६-१६॥
युक्त-आहार-विहारस्य युक्त-चेष्टस्य कर्मसु । युक्त-स्वप्न-अवबोधस्य योगः भवति दुःखहा ॥ ६-१७॥
यदा विनियतम् चित्तम् आत्मनि एव अवतिष्ठते । निःस्पृहः सर्व-कामेभ्यः युक्तः इति उच्यते तदा ॥ ६-१८॥
यथा दीपः निवातस्थः नेङ्गते सोपमा स्मृता । योगिनः यत-चित्तस्य युञ्जतः योगम् आत्मनः ॥ ६-१९॥
यत्र उपरमते चित्तम् निरुद्धम् योग-सेवया । यत्र च एव आत्मना आत्मानम् पश्यन् आत्मनि तुष्यति ॥ ६-२०॥
सुखम् आत्यन्तिकम् यत् तत् बुद्धि-ग्राह्यम्-अतीन्द्रियम् । वेत्ति यत्र न च एव अयम् स्थितः चलति तत्त्वतः ॥ ६-२१॥
यम् लब्ध्वा च अपरम् लाभम् मन्यते न अधिकम् ततः । यस्मिन् स्थितः न दुःखेन गुरुणा अपि विचाल्यते ॥ ६-२२॥
तम् विद्यात् दुःख-संयोग-वियोगम् योग-संज्ञितम् । सः निश्चयेन योक्तव्यः योगः अनिर्विण्ण-चेतसा ॥ ६-२३॥
सङ्कल्प-प्रभवान् कामान् त्यक्त्वा सर्वान् अशेषतः । मनसा एव इन्द्रिय-ग्रामम् विनियम्य समन्ततः ॥ ६-२४॥
शनैः शनैः उपरमेत् बुद्ध्या धृति-गृहीतया । आत्म-संस्थम् मनः कृत्वा न किञ्चित् अपि चिन्तयेत् ॥ ६-२५॥
यतः यतः निश्चरति मनः चञ्चलम् अस्थिरम् । ततः ततः नियम्य एतत् आत्मनि एव वशं नयेत् ॥ ६-२६॥
प्रशान्त-मनसम् हि एनम् योगिनम् सुखम् उत्तमम् । उपैति शान्त-रजसम् ब्रह्म-भूतम् अकल्मषम् ॥ ६-२७॥
युञ्जन् एवम् सदा आत्मानम् योगी विगत-कल्मषः । सुखेन ब्रह्म-संस्पर्शम् अत्यन्तम् सुखम् अश्नुते ॥ ६-२८॥
सर्व-भूतस्थम् आत्मानम् सर्व-भूतानि च आत्मनि । ईक्षते योग-युक्त-आत्मा सर्वत्र सम-दर्शनः ॥ ६-२९॥
यो माम् पश्यति सर्वत्र सर्वम् च मयि पश्यति । तस्य अहं न प्रणश्यामि सः च मे न प्रणश्यति ॥ ६-३०॥
सर्व-भूत-स्थितम् यः माम् भजति एकत्वम् आस्थितः । सर्वथा वर्तमानः अपि सः योगी मयि वर्तते ॥ ६-३१॥
आत्मा-उपम्येन सर्वत्र समम् पश्यति यः अर्जुन । सुखम् वा यदि वा दुःखम् सः योगी परमः मतः ॥ ६-३२॥
अर्जुन उवाच योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन । एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥ ६-३३॥
चञ्चलम् हि मनः कृष्ण प्रमाथि बलवत् दृढम् । तस्य अहम् निग्रहम् मन्ये वायोः इव सुदुष्करम् ॥ ६-३४॥
असंशयम् महाबाहो मनः दुर्निग्रहम् चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ ६-३५॥
असंयत-आत्मना योगः दुष्प्रापः इति मे मतिः । वश्य-आत्मना तु यतता शक्यः अवाप्तुम् उपायतः ॥ ६-३६॥
अर्जुन उवाच अयतिः श्रद्धया उपेतः योगात् चलित-मानसः । अप्राप्य योग-संसिद्धिम् काम् गतिम् कृष्ण गच्छति ॥ ६-३७॥
कच्चित् न उभय-विभ्रष्टः छिन्न-अभ्रम् इव नश्यति । अप्रतिष्ठः महाबाहो विमूढः ब्रह्मणः पथि ॥ ६-३८॥
एतत् मे संशयम् कृष्ण छेत्तुम् अर्हसि अशेषतः । त्वत् अन्यः संशयस्य अस्य छेत्ता न हि उपपद्यते ॥ ६-३९॥
पार्थ न एव इह न अमुत्र विनाशः तस्य विद्यते । न हि कल्याण-कृत् कश्चित् दुर्गतिम् तात गच्छति ॥ ६-४०॥
प्राप्य पुण्य-कृताम् लोकान् उषित्वा शाश्वतीः समाः । शुचीनाम् श्रीमताम् गेहे योग-भ्रष्टः अभिजायते ॥ ६-४१॥
अथवा योगिनाम् एव कुले भवति धीमताम् । एतत् हि दुर्लभतरं लोके जन्म यत् ईदृशम् ॥ ६-४२॥
तत्र तम् बुद्धि-संयोगम् लभते पौर्व-देहिकम् । यतते च ततः भूयः संसिद्धौ कुरुनन्दन ॥ ६-४३॥
पूर्व-अभ्यासेन तेन एव ह्रियते हि अवशः अपि सः । जिज्ञासुः अपि योगस्य शब्द-ब्रह्म अतिवर्तते ॥ ६-४४॥
प्रयत्नात् यतमानः तु योगी संशुद्ध-किल्बिषः । अनेक-जन्म-संसिद्धः ततः याति पराम् गतिम् ॥ ६-४५॥
तपस्विभ्यः अधिकः योगी ज्ञानिभ्यः अपि मतः अधिकः । कर्मिभ्यः च अधिकः योगी तस्मात् योगी भव अर्जुन ॥ ६-४६॥
योगिनाम् अपि सर्वेषाम् मत् गतेन अन्तर-आत्मना । श्रद्धावान् भजते यः माम् सः मे युक्ततमः मतः ॥ ६-४७॥