Bhagavad Gītā · Chapter 7 of 18

ज्ञानविज्ञानयोग

Self-Knowledge and Enlightenment

मयि आसक्त-मनाः पार्थ योगम् युञ्जन् मत् आश्रयः । असंशयम् समग्रम् माम् यथा ज्ञास्यसि तत् श‍ृणु ॥ ७-१॥

ज्ञानम् ते अहम् सविज्ञानम् इदम् वक्ष्यामि अशेषतः । यत् ज्ञात्वा न इह भूयः अन्यत् ज्ञातव्यम् अवशिष्यते ॥ ७-२॥

मनुष्याणाम् सहस्रेषु कश्चित् यतति सिद्धये । यतताम् अपि सिद्धानाम् कश्चित् माम् वेत्ति तत्त्वतः ॥ ७-३॥

भूमिः आपः अनलः वायुः खम् मनः बुद्धिः एव च । अहंकारः इति इयम् मे भिन्ना प्रकृतिः अष्टधा ॥ ७-४॥

अपरा इयम् इतः तु अन्याम् प्रकृतिम् विद्धि मे पराम् । जीव-भूताम् महाबाहो यया इदम् धार्यते जगत् ॥ ७-५॥

एतत् योनीनि भूतानि सर्वाणि इति उपधारय । अहम् कृत्स्नस्य जगतः प्रभवः प्रलयः तथा ॥ ७-६॥

मत्तः परतरं न अन्यत् किञ्चित् अस्ति धनञ्जय । मयि सर्वम् इदम् प्रोतम् सूत्रे मणिगणाः इव ॥ ७-७॥

रसः अहम् अप्सु कौन्तेय प्रभा अस्मि शशि-सूर्ययोः । प्रणवः सर्व-वेदेषु शब्दः खे पौरुषम् नृषु ॥ ७-८॥

पुण्यः गन्धः पृथिव्याम् च तेजः च अस्मि विभावसौ । जीवनम् सर्व-भूतेषु तपः च अस्मि तपस्विषु ॥ ७-९॥

बीजम् माम् सर्व-भूतानाम् विद्धि पार्थ सनातनम् । बुद्धिः बुद्धिमताम् अस्मि तेजः तेजस्विनाम् अहम् ॥ ७-१०॥

बलं बलवतां चाहं कामरागविवर्जितम् । धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ७-११॥

ये च एव सात्त्विकाः भावाः राजसाः तामसाः च ये । मत्तः एव इति तान् विद्धि न तु अहं तेषु ते मयि ॥ ७-१२॥

त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ ७-१३॥

दैवी हि एषा गुणमयी मम माया दुरत्यया । माम् एव ये प्रपद्यन्ते मायाम् एताम् तरन्ति ते ॥ ७-१४॥

न माम् दुष्कृतिनः मूढाः प्रपद्यन्ते नर-अधमाः । मायया अपहृत-ज्ञानाः आसुरम् भावम् आश्रिताः ॥ ७-१५॥

चतुः-विधाः भजन्ते माम् जनाः सुकृतिनः अर्जुन । आर्तः जिज्ञासुः अर्थार्थी ज्ञानी च भरतर्षभ ॥ ७-१६॥

तेषाम् ज्ञानी नित्य-युक्तः एक-भक्तिः विशिष्यते । प्रियः हि ज्ञानिनः अत्यर्थम् अहम् सः च मम प्रियः ॥ ७-१७॥

उदाराः सर्वे एव एते ज्ञानी तु आत्मा एव मे मतम् । आस्थितः सः हि युक्त-आत्मा माम् एव अनुत्तमाम् गतिम् ॥ ७-१८॥

बहूनाम् जन्मनाम् अन्ते ज्ञानवान् माम् प्रपद्यते । वासुदेवः सर्वम् इति सः महात्मा सुदुर्लभः ॥ ७-१९॥

कामैः तैः तैः हृत-ज्ञानाः प्रपद्यन्ते अन्य-देवताः । तम् तम् नियमम् आस्थाय प्रकृत्या नियताः स्वया ॥ ७-२०॥

यः यः याम् याम् तनुम् भक्तः श्रद्धया अर्चितुम् इच्छति । तस्य तस्य अचलाम् श्रद्धाम् ताम् एव विदधामि अहम् ॥ ७-२१॥

सः तया श्रद्धया युक्तः तस्य अराधनम् ईहते । लभते च ततः कामान् मया एव विहितान् हि तान् ॥ ७-२२॥

अन्तवत् तु फलम् तेषाम् तत् भवति अल्प-मेधसाम् । देवान् देव-यजः यान्ति मत् भक्ताः यान्ति माम् अपि ॥ ७-२३॥

अव्यक्तम् व्यक्तिम् आपन्नम् मन्यन्ते माम् अबुद्धयः । परम् भावम् अजानन्तः मम अव्ययम् अनुत्तमम् ॥ ७-२४॥

न अहम् प्रकाशः सर्वस्य योग-माया-समावृतः । मूढः अयम् न अभिजानाति लोकः माम् अजम् अव्ययम् ॥ ७-२५॥

वेद अहम् समतीतानि वर्तमानानि च अर्जुन । भविष्याणि च भूतानि माम् तु वेद न कश्चन ॥ ७-२६॥

इच्छा-द्वेष-समुत्थेन द्वन्द्व-मोहेन भारत । सर्व-भूतानि सम्मोहम् सर्गे यान्ति परन्तप ॥ ७-२७॥

येषाम् तु अन्तगतम् पापम् जनानाम् पुण्य-कर्मणाम् । ते द्वन्द्व-मोह-निर्मुक्ताः भजन्ते माम् दृढ-व्रताः ॥ ७-२८॥

जरा-मरण-मोक्षाय माम् आश्रित्य यतन्ति ये । ते ब्रह्म तत् विदुः कृत्स्नम् अध्यात्मम् कर्म च अखिलम् ॥ ७-२९॥

साधिभूत-अधिदैवम् माम् साधियज्ञम् च ये विदुः । प्रयाणकाले अपि च मां ते विदुः युक्त-चेतसः ॥ ७-३०॥

Bhagavad Gita Chapter 7: Self-Knowledge and Enlightenment — Sanskrit (Devanagari) · ekadasi.day