Bhagavad Gītā · Chapter 8 of 18

अक्षरब्रह्मयोग

Path of the Eternal God

अर्जुन उवाच किम् तत् ब्रह्म किम् अध्यात्मम् किम् कर्म पुरुषोत्तम । अधिभूतम् च किम् प्रोक्तम् अधिदैवम् किम् उच्यते ॥ ८-१॥

अधियज्ञः कथम् कः अत्र देहे अस्मिन् मधुसूदन । प्रयाण-काले च कथम् ज्ञेयः असि नियत-आत्मभिः ॥ ८-२॥

अक्षरम् ब्रह्म परमम् स्वभावः अध्यात्मम् उच्यते । भूत-भाव-उद्भव-करः विसर्गः कर्म-संज्ञितः ॥ ८-३॥

अधिभूतम् क्षरः भावः पुरुषः च अधिदैवतम् । अधियज्ञः अहम् एव अत्र देहे देह-भृताम् वर ॥ ८-४॥

अन्त-काले च माम् एव स्मरन् मुक्त्वा कलेवरम् । यः प्रयाति सः मत् भावम् याति न अस्ति अत्र संशयः ॥ ८-५॥

यम् यम् वा अपि स्मरन् भावम् त्यजति अन्ते कलेवरम् । तम् तम् एव एति कौन्तेय सदा तद्त् भाव-भावितः ॥ ८-६॥

तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च । मयि अर्पित-मनः-बुद्धिः माम् एव एष्यसि असंशयम् ॥ ८-७॥

अभ्यास-योग-युक्तेन चेतसा न अन्य-गामिना । परमम् पुरुषम् दिव्यम् याति पार्थ अनुचिन्तयन् ॥ ८-८॥

कविम् पुराणम् अनुशासितारम् अणोः अणीयांसम् अनुस्मरेत् यः । सर्वस्य धातारम् अचिन्त्य-रूपं आदित्य-वर्णम् तमसः परस्तात् ॥ ८-९॥

प्रयाण-काले मनसा अचलेन भक्त्या युक्तः योग-बलेन च एव । भ्रुवोः मध्ये प्राणम् आवेश्य सम्यक् सः तम् परम् पुरुषम् उपैति दिव्यम् ॥ ८-१०॥

यत् अक्षरम् वेद-विदः वदन्ति विशन्ति यत् यतयः वीत-रागाः । यत् इच्छन्तः ब्रह्मचर्यम् चरन्ति तत् ते पदम् संग्रहेण प्रवक्ष्ये ॥ ८-११॥

सर्व-द्वाराणि संयम्य मनः हृदि निरुध्य च । मूर्ध्नि आधाय आत्मनः प्राणम् आस्थितः योग-धारणाम् ॥ ८-१२॥

ओम् इति एक-अक्षरम् ब्रह्म व्याहरन् माम् अनुस्मरन् । यः प्रयाति त्यजन् देहम् सः याति परमाम् गतिम् ॥ ८-१३॥

अनन्य-चेताः सततम् यः माम् स्मरति नित्यशः । तस्य अहं सुलभः पार्थ नित्य-युक्तस्य योगिनः ॥ ८-१४॥

माम् उपेत्य पुनः-जन्म दुःख-आलयम् अशाश्वतम् । न आप्नुवन्ति महात्मानः संसिद्धिम् परमाम् गताः ॥ ८-१५॥

आब्रह्म-भुवनात् लोकाः पुनः-आवर्तिनः अर्जुन । माम् उपेत्य तु कौन्तेय पुनः-जन्म न विद्यते ॥ ८-१६॥

सहस्र-युग-पर्यन्तम् अहः यत् ब्रह्मणः विदुः । रात्रिम् युग-सहस्र-अन्ताम् ते अहोरात्र-विदः जनाः ॥ ८-१७॥

अव्यक्तात् व्यक्तयः सर्वाः प्रभवन्ति अहः आगमे । रात्रि आगमे प्रलीयन्ते तत्र एव अव्यक्त-संज्ञके ॥ ८-१८॥

भूत-ग्रामः सः एव अयम् भूत्वा भूत्वा प्रलीयते । रात्रि आगमे अवशः पार्थ प्रभवति अहः आगमे ॥ ८-१९॥

परः तस्मात् तु भावः अन्यः अव्यक्तः अव्यक्तात् सनातनः । यः सः सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ ८-२०॥

अव्यक्तः अक्षरः इति उक्तः तम् आहुः परमाम् गतिम् । यम् प्राप्य न निवर्तन्ते तत् धाम परमम् मम ॥ ८-२१॥

पुरुषः सः परः पार्थ भक्त्या लभ्यः तु अनन्यया । यस्य अन्तः-स्थानि भूतानि येन सर्वम् इदम् ततम् ॥ ८-२२॥

यत्र काले तु अनावृत्तिम् आवृत्तिम् च एव योगिनः । प्रयाताः यान्ति तम् कालम् वक्ष्यामि भरतर्षभ ॥ ८-२३॥

अग्निः ज्योतिः अहः शुक्लः षण्मासाः उत्तर-आयणम् । तत्र प्रयाताः गच्छन्ति ब्रह्म ब्रह्मविदः जनाः ॥ ८-२४॥

धूमः रात्रिः तथा कृष्णः षण्मासाः दक्षिण-आयनम् । तत्र चान्द्रमसम् ज्योतिः योगी प्राप्य निवर्तते ॥ ८-२५॥

शुक्ल-कृष्णे गती हि एते जगतः शाश्वते मते । एकया याति अनावृत्तिम् अन्यया आवर्तते पुनः ॥ ८-२६॥

न एते सृती पार्थ जानन् योगी मुह्यति कश्चन । तस्मात् सर्वेषु कालेषु योग-युक्तः भव अर्जुन ॥ ८-२७॥

वेदेषु यज्ञेषु तपःसु च एव दानेषु यत् पुण्य-फलम् प्रदिष्टम् । अत्येति तत् सर्वम् इदम् विदित्वा योगी परम् स्थानम् उपैति च आद्यम् ॥ ८-२८॥

Bhagavad Gita Chapter 8: Path of the Eternal God — Sanskrit (Devanagari) · ekadasi.day